________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६
श्रीशारीरकमीमांसाभाष्ये
[अ. ३.
न्ति ग्राहयन्ति च " इति । किमयं प्रत्यगात्मा ज्ञाता कर्ता भोक्तेहामुन सञ्चारक्षमोऽनुसन्धेयः, उत प्रजापतिवाक्यादितापहतपाप्मत्वादिस्वरूपः; किं युक्तम् : ज्ञातृत्वाद्याकारमात्र इत्येके मन्यन्ते ; कुतः ? अस्योपासकस्यात्मनः शरीरे भावात् ; शरीरे वर्तमानस्य तादृशमेव रूपम् ; तावतैवानुसन्धानेन तत्फलसिद्ध्युपपत्तेश्च ; नहि कर्मस्वधिकृतानां स्वर्गादिफलार्थिनां ज्ञातृत्वाद्यतिरेकेण फलानुभवदशायां यादृशं रूपम्, तादृशं रूपं साधनानुष्ठानदशायामनुसन्धातव्यम् ; तावतैव साधनानुष्ठानतफलयोस्सिद्धेरतिरिक्तानुसन्धाने प्रयोजनाभावात् ; तदविशेषादिहापि तथैव । ननुचाल १" यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भ वति" इति विशेषवचनादपहतपाप्मत्वाद्याकार एवानुसन्धातव्य इत्यवगम्यते ; नैवम्, २" तं यथायथोपासते" इत्युपास्यविषयत्वात्तस्य ॥ (सिद्धान्तः ) --
एवं प्राप्ते प्रचक्ष्महे—
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धि
वत् । ३ । ३ । ५२ ॥
न त्वेतदस्ति यत् ज्ञातृत्वाद्याकार एवानुसन्धेय इति ; अस्यात्मनस्संसारदशायाः मोक्षदशायां यो व्यतिरेकः, सोऽपहतपाप्मत्वादिकोsनुसन्धेयः अस्य मोक्षदशायां यादृशं रूपं तादृग्रप एवोपासनवेलायामात्माऽनुसन्धेय इत्यर्थः । कुतः तद्भावभावित्वात्चद्रपापत्तेः; १ " यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति” २" तं यथायथोपासते तथैव भवति " इति यथोपासनमेव हि प्राप्तिः श्रयते । नच परस्वरूपमात्त्रविषयमेवेदमिति वक्तुं शक्यते, प्रत्यगात्मनोऽप्युपास्यभूत
१. छा. ३-१४-१ ॥ २. मुद्गलोपनिषत् ३ ख ॥
For Private And Personal Use Only