________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३. शरीरेभाषाधिकरणम् .
३३५ द्यादीनां पृथक्त्वहेतुभ्यः पृथक्त्वम् ; आदिशब्दात्पूर्वोक्तश्श्रुत्यादिखते ; श्रुस्यादिनाऽनुबन्धैश्च विद्यामयक्रतुविधिः कल्प्यत इत्यर्थः। दृष्टश्चानुवादसरूऽपिपे कल्प्यमानो विधिः १“यदेव धयाव करोति" इत्यादौ । तदुक्तं २ "व. चनानि त्वपूर्वत्वात्" इति ॥४८॥
यत्तूक्तमतिदेशाचेष्टकचितशेषिभूतक्रत्वन्वयोऽवगम्यत इति, तत्राह
न सामान्यादप्युपलब्धेम॒त्युवन्न हि लोकापत्तिः॥ नावश्यमतिदेशेनेष्टकचिताग्नितुल्यदेशत्वमप्याश्रयणीयम् , येनकेनचित्सामान्येनातिदेशोपलब्धेः । ३" स एष मृत्युर्य एष एतस्मिन्मण्डले पुरुषः" इतिवत्फलसामा न्येन भविष्यस्यतिदेशः। नहि तत्र मण्डलपुरुषे मृत्युलोकापत्तिरप्यतिदिश्यते ; अपि तु मृत्युवत् सर्वसंहर्तृत्वमेव ॥४९॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्वनुबन्धः ॥ परेणच ब्राह्मणेनास्य मनश्चिताद्यभिधायिनशब्दस्य ताद्विध्यं तद्विधत्वम् , विद्यामयप्रतिपादकत्वमवगम्यते । परेणहि ब्राह्मणेन ४'अयं वाव लोक एषोऽग्निचितस्त. स्याप एव" इत्यादिना पृथक्फला विद्यैव विधीयते । अग्निरहस्ये क्रियामया एव विधीयन्त इति नास्ति नियम इत्यर्थः। क्रियाप्रकरणे त्वेषां मनश्चितादीनामनुबन्धः सम्पादनीयानामग्न्यङ्गानामत्र भूयस्त्वास्क्रियते । अतो विद्यामयक्रत्वङ्गभूता एव मनश्चितादयोऽग्नयः॥५०॥
इति वेदान्तदीपे पूर्वविकल्पाधिकरणम् ॥ २० ॥
....(श्रीशारीरकमीमांसाभाष्ये शरीरेभावाधिकरणम् ॥२१॥).....
एक आत्मनश्शरीरे भावात् । ३॥ ३॥५१॥
सर्वासु परविद्यासूपास्योपासनखरूपवदुपासकखरूपस्यापि ज्ञातव्यत्वमुक्तं-५"त्रयाणामेवचैवमुपन्यासः प्रश्नश्च" इति । वक्ष्यति चास्य प्रत्यगात्मनः परमात्मात्मकत्वेनानुसन्धानम् ६" आत्मेति तूपगच्छ.
.. छा. १-१-१० ।-२. पू. मी. ३-५-२१॥-३ ॥-४ ॥५. शारी. १. ४-६ ॥-६. शारी. ४-१-३ ॥
For Private And Personal Use Only