________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे
[अ. ३. तुद्वारेण फलमिति निश्चीयत इति विद्यामयकत्वङ्गभूता एव मनश्चितादयः। सूत्रार्थस्तु-मनश्चितादिः क्रिया स्यात्-क्रियामयक्रत्वङ्गभूत इत्यर्थः । कुतः ! प्रकरणात् पूर्वप्रकृतेनेष्टकचितेनाव्यभिचरितक्रतुसम्बन्धिनोपस्थितक्रतुगृहीत. त्वेन तदङ्गभूतानामेषां चाग्नित्वात्तनेष्टकचितेन विकल्पः; विद्यारूपाणामप्येषां क्रियामयक्रत्वगभावो न विरुध्यते, द्वादशाहाङ्गभूतमानसग्रहवत् ॥४४॥
अतिदेशाच ॥ १"तेषामेकैक एव तावान्यावानसौ पूर्वः” इति तेषु पूर्वेष्टकचितकार्यातिदेशाच तेनैषां विकल्पः प्रतीयते । तेन विकल्पो हि तच्छेषिभूतकत्वङ्गत्वेन विनैषां नोपपद्यते । अतश्च तदङ्गभूताः ॥ ४५ ॥
विद्यैव तु निधोरणादर्शनाच ॥ तुशब्दः पक्षं व्यावर्तयति ; मनश्चितादिः विद्यैव विद्यामयक्रत्वङ्गभूत एवेत्यर्थः । कुतः १ निर्धारणात् तेषां विद्यारूपत्वे सिद्धेऽपि २"ते हैते विद्याचित एवं" इति निर्धारणं विद्यामयक्र. त्वङ्गतयैषां विद्यमयत्वख्यापनार्थम् । अत्रैव विद्यामयक्रतुदर्शनाच तदङ्गत्वमे वैषाम् । दृश्यतेचात्र विद्यामयः क्रतुः ३"मनसैषु ग्रहा अगृह्यन्त मनसास्तुवन्त मनसाशंसन्" इत्यादौ ॥ ४६॥ ___ अत्र विद्यामयक्रतो विधिपदाश्रवणात् , तत्फलसम्बन्धाप्रतीतेश्च, प्रकरणेनेष्टकचिताग्न्युपस्थापितकत्वङ्गताप्रतीतेश्च विद्यामयक्रत्वन्वयो बाध्यत इ. स्याशङ्कयाह--
श्रुत्यादिबलीयस्त्वाच न बाधः ॥ श्रुत्यादेः प्रकरणादलीयस्त्वेन श्रु. स्याद्यवगतस्य विद्यामयक्रत्वन्वयस्य प्रकरणेन न बाधः । श्रुतिस्तावत् २“ते हैते विद्याचित एव" इति । तां विवृणोति २“विद्यया हैवैत एवंविदश्चिता भवन्ति" इति । लिङ्गवाक्ये च भाष्ये दर्शिते । एवंविदः मनश्चक्षुरादिव्यापारेष्वग्नित्वं सम्पादयितुः, एते मनश्चितादयः, विद्यया प्रधानभूतया चिता भवन्तीत्यर्थः ॥४७॥ ___"मनसैषु ग्रहा अगृह्यन्त' इत्यादौ विधिपदाश्रवणाद्विद्यामयक्रतुविधिर्न सम्भवतीति तदसम्भवाञ्च तदन्वयोऽपि न सम्भवतीत्याशङ्कयाह --
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववदृष्टश्च तदुक्तम् ॥ ग्रहस्तोत्रशस्त्रेभ्यो यज्ञानुबन्धेभ्यः इष्टकचितान्वयिनः क्रतोरत्र विधीयमानविद्यामयक्रतुपृथक्त्वमवगम्यते ; प्रशान्तरपृथक्त्ववत्-यथा प्रशान्तराणां दहरवि
१॥-२ ॥
३ ॥
For Private And Personal Use Only