________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] पूर्वविकल्पाधिकरणम् .
३३३ न सामान्यादप्युपलब्धेर्मुत्युवन हि लोकापत्तिः ॥ १॥ तेषामेकैक एव तावान्यावानसौ" इतीष्टकचिताग्निफलसामान्येनातिदेशः, इष्टकचिताग्नेः वक्रतुद्वारेण यत्फलम्, तदेवैषां विद्यामयक्रत्वनुप्रवेशेन फलमिति ; न पुनरिटकचितातिदेशत्वमप्येषामिति, केनापि सामान्येनातिदेशोपलब्धेः । यथा २"स एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषः" इति सर्वहरत्वमात्रेण ; नहि तत्र मण्डलपुरुषस्य मृत्युदेशन्वम् ॥ ४९॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्वनुबन्धः ॥ परेणच ब्राह्मणेनास्य मनश्चितादिवाचिनशब्दस्य विद्यामयप्रतिपादित्वमवगम्यते;३ "अयं वा. व लोक एषोऽग्निचितस्तस्याप एव" इत्यादिना पृथक्फला विद्यैव विधीयते । क्रियाप्रकरणे अग्निरहस्ये मनश्चितादीनामनुबन्धस्तु संपादनीयानामग्नयङ्गानां भूयस्त्वात् ॥५०॥
इति वेदान्तसारे पूर्वविकल्पाधिकरणम् ॥ २० ॥ वेदान्तदीपे-पूर्वविकल्पः प्रकरणात्स्याक्रिया मानसवत् ।। वाजसनेयकेऽग्निरहस्ये ४"मनश्चितो वाश्चितः प्राणचितश्चक्षुश्चितः' इत्यादिना मनश्चितादयोऽग्नयो विद्यारूपाः श्रूयन्ते । किमेते क्रियामयक्रत्वङ्गभूताः, उत विद्यामयक्रत्वङ्गभूता इति संशयः । अस्मिन् प्रकरणे विद्यामयकत्वनुबन्धिमानसग्रहस्तोत्रादिदर्शनेऽपि क्रतोर्विधानाभावात् , फलान्तराप्रतीतेश्च , पूर्वत्र ५ " असहा इदमग्र आसीत् ” इत्यादिनेष्टकचितस्याग्नेः प्रकृतत्वात् , मनश्चितादिषु च ६ ॥ तेषामेकैक एव तावान्यावानसौ पूर्वः" इति तत्कार्यातिदेशादिष्टकचितेनैषां विकल्पप्रतीतेश्चेष्टकचिताग्निशेषभूतक्रियामयक्रत्वनुप्रवेशेन तदङ्गभूता इति पूर्वः पक्षः । राद्धान्तस्तु-७"ते हैते विद्याचित एव विद्यया हैवैत एवंविदश्चिता भवन्ति" इति मनश्चितादीनां साम्पादिकानित्वेन विद्यारूपत्वे सिद्धेऽपि ७“ते हैते विद्याचित एव" इत्यवधारणश्रुतिर्विद्यामयक्रत्वङ्गत्वेनैषां विद्यारूपतावगत्यर्थेति निश्चयात् सन्निहितैर्मानसैः ग्रहस्तोत्रादिभिः क्रत्वनुबन्धैरनुवादसरूपवाक्यप्रतिपादितैः क्रतुदर्शने सति ८"वचनानि त्वपूर्वत्वात्' इति न्यायेन मनश्चितादीनां शेषिभूतविद्यामयक्रतो. विधिः परिकल्प्यते । ६ "तेषामेकैक एव तावान्यावानसौ पूर्वः” इत्यतिदेशेनेष्टकचिताग्नेस्वशेषिभूतक्रतुद्वारेण यत्फलम् , तदेवैषां स्वशेषिभूतविद्यामय
१॥---२ ॥-३ ॥--४. वाजसनेयके. अग्निरहस्ये ॥ --~-५ ॥-६ ॥- - ८. पूर्वमी. सू. ३-५-२१॥
For Private And Personal Use Only