________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३३२
वेदान्तसारे
[म. ३.
पृथक्फला विद्यैव विधीयते, तथा वैश्वानरविद्यादौ च विधैव विधीयते । अतोऽग्निरहस्यस्य क्रियैकविषयत्वं नास्ति । एवं तर्हि विद्यामया मनवितादयो बृहदारण्यके ऽनुबद्धव्याः, किमर्थमिहानुबध्यन्ते; तत्रोच्यते-भूयस्त्वावनुबन्धः - इति । मनश्चितादिषु सम्पादनीयानामनयङ्गानां भूयस्त्वात्सन्निधाविहानुबन्धः कृतः ॥ ५० ॥
इति श्रीशारीरकमीमांसाभाष्ये पूर्वविकल्पाधिकरणम् ॥ २० ॥
Acharya Shri Kailassagarsuri Gyanmandir
<< असद्वा इदमग्र
वेदान्तसारे - पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ।। १" म नश्चितो वाक्चितः प्राणचितः" इत्यादिसांपादिकानीनाम् २ आसीत्" इत्यादिना पूर्वप्रकृतेष्टकचिताग्निशेषिभूतक्रियामयक्रत्वनुप्रवेशस्स्यात्; एषामग्नित्वेनेष्टकचिताग्निना विकल्प:; द्वादशाहाङ्गभूतमानसग्रहवत् एषां मा नसानामपि क्रियामयकत्वङ्गत्वं न विरुद्धम् ॥ ४४ ॥
अतिदेशाच्च ॥ ३ " तेषामेकैक एव तावान्यावानसौ पूर्वः" इतीष्टकचिताग्निकार्यातिदेशाश्च तदङ्गत्वम् ॥ ४५ ॥
विद्यैव तु निर्धारणाद्दर्शनाच्च । विद्यैव एते विद्यामयकत्वङ्गभूता इ त्यर्थः, सांपादिकाग्नित्वेनैषां विद्यामयत्वे सिद्धेऽपि ४ “ते हैते विद्याचित एव" इति निर्धारणं हि विद्यामयक्रत्वन्वयेन विद्यामयत्वख्यापनाय । दृश्यते चात्र विद्यामयः क्रतुः ५ " मनसैषु ग्रहा अगृह्यन्त" इत्यादौ ॥ ४६ ॥
श्रुत्यादिवलीयस्त्वाच्च न बाधः || ४' 'ते हैते विद्याचित एव विद्यया हैवैते एवंविदश्चिता भवन्ति” इति श्रुत्या वाक्येन चावगतविद्यामयक्रत्वन्वयस्य दुर्बलप्रकरणेन न बाधः ॥ ४७ ॥
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दष्टश्च तदुक्तम्।। ६" मनसेषु प्रहा अगृह्यन्त" इत्यादिक्रत्वनुबन्धैः ८"ते हैते विद्याचित एव " इति श्रुत्यादिभिश्चात्र विद्यामयक्रतुविधिः कल्प्यत इति दहरविद्यादीनां क्रियामयत्वात् पृथक्त्ववत् अस्यापि विद्यामयक्रतोस्सानुबन्धैः पृथक्त्वमवगम्यते । दृष्टश्चानुवादसरूपेऽपि विधिः ७" यदेव विद्यया करोति" इत्यादौ । तदुक्तं ८' वचनानि त्वपूर्वत्वात्" इति ॥ ४८ ॥
१. बाजसनेयके. अग्निरहस्ये ॥ २ ॥ - १- १० ॥ - ८. पू. मी. ३-५-२१ ॥
-३ ॥ - ४॥ ५ ॥ ६ ॥ - ७. छा. १
For Private And Personal Use Only