________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] पूर्वविकल्पाधिकरणम् .
३३१ ल्प्यमानो विधिः। तदुक्तं-,"वचनानि त्वपूर्वत्वात्" इति । फलं च २"तेषामेकैक एव तावान् यावानसौ पूर्वः" इत्यतिदेशात् स्वक्रतुद्वारेणेटकचितस्यागेर्यत्फलम् , तदेव मनश्चितादीनामपि वक्रतुद्वारेण फलमित्यवगम्यते ॥४८॥ ____ यत्पुनरतिदेशेन तुल्यकार्यत्वावगमाक्रियामयक्रत्वनुप्रवेशोऽवगम्यत इत्युक्तम्, तत्राहन सामान्यादप्युपलब्धेर्मत्युवन्न हि लोका
पत्तिः । ३।३।४९॥ नावश्यमतिदेशादवान्तरव्यापारस्यापि तुल्यतया भवितव्यम्, येन क्रियामयक्रत्वनुप्रवेश एषां स्यात्, यस्मात्कस्माञ्चित्सामान्यमानादतिदेशोपलब्धेः उपलभ्यते हि ३“स एष एव मृत्युर्य एष एतस्मिन् मण्डले पुरुषः" इत्यादिषु संहर्तृत्वादिसामान्यमानादतिदेशः नहि तत्र मण्डलपुरुषस्य मृत्युवत्तल्लोकापत्तिः-तद्देशप्राप्तिरपि भवति; एवमिहापि मनश्चितादीनामिष्टकचिताग्निवद्भावातिदेशमानेणेष्टकचिताग्निदेशरूपक्रियामयक्रत्वनुप्रवेशेनापि न भवितव्यम् । अत इष्टकचितानेः स्वक्रतुद्वारेण यत्फलम् , तदेव मनश्चितादीनामपि विद्यामयक्रतुद्वारेण फलमित्यतिदेशादवगम्यते॥ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनु
बन्धः । ३।३।५०॥ परेण च ब्राह्मणेनास्यापि मनश्चितायभिधायिनः शब्दस्य ताद्विध्यं-तद्विधत्वम्, विद्यामयप्रतिपादित्वमवगम्यते; परेणहि ब्राह्मणेन ४ "अयं वाव लोक एषोऽग्निचितस्तस्याप एव परिश्रिताः" इत्यादिना ५" स यो हैतदेवं वेद लोकंपृणानामेनं भूतमेतत्सर्वमभिसम्पद्यते " इति
१. पू. मी. ३-५-२१ ॥ २ ॥३ ॥-४ ॥ ५ ॥
For Private And Personal Use Only