________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०
श्रीशारीरकमीमांसाभाष्ये
[अ. ३. श्रुतिलिङ्गवाक्यानां प्रकरणाबलीयस्त्वेन श्रुत्याधवगतः क्रतुरेषां तदन्वयश्च दुर्बलेन प्रकरणेन बाधितुं न शक्यते; श्रुतिस्तावत्-१" ते हैते विद्याचित एव" इति । तां विवृणोति १" विद्यया हैवैत एवंविदश्चिता भवन्ति" इति । विद्यया विद्यामयेन ऋतुना सम्बद्धा मनश्चितादयश्चिता भवन्तीत्यर्थः । २" तान् हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते" इति लिङ्गम् । वाक्यं च ३"एवंविदे चिन्वन्ति " इति । समभिव्याहारो वाक्यम् । एवंविदे विद्यामयऋतुमते सर्वदा सर्वाणि भूतानि चिन्वन्तीत्यर्थः । सर्वभूतकर्तृकं सर्वकालव्यापि चयनं मनसा सम्पादितं परिमितकर्तृकालक्रियामयेष्टकचितकार्यद्वारेण ऋत्वनुपवेशसम्भवमलभमानं विद्यामयक्रत्वनुप्रवेशे लिङ्गं भवति ॥४७॥
यच्चेदमुक्तं-विधिप्रत्ययाश्रवणात्फलसम्बन्धाप्रतीतेश्च क्रियामयाकतोरन्योऽत्र विद्यामयः क्रतुर्न सम्भवति-इति, तत्राहअनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दष्टश्च तदु
क्तम् । ३।३।४८॥ इष्टकचितान्वयिनः क्रियामयात्क्रतोर्विद्यामयोऽयं क्रतुः पृथक्त्वेन अनुबन्धादिभ्यः पृथक्त्वहेतुभ्योऽवगम्यते । अनुबन्धाः यज्ञानुबन्धिनो ग्रहस्तोत्रशस्त्रादयः ४" मनसैषु ग्रहा अगृह्यन्त मनसास्तुवन्त मनसाशंसन्" इत्यादिना प्रतिपादिताः । आदिशब्देन श्रुत्यादयः पूर्वोक्ता गृह्यन्ते । श्रुत्यादिभिस्सानुबन्धैः विद्यामयक्रतुः पृथगवगम्यत इत्यर्थः। प्रज्ञान्तरपृथक्त्ववत्-यथा प्रज्ञान्तरं दहरविद्यादि क्रियामयात्क्रतोः पृथग्भूतं श्रुत्यादिभिरवगम्यते, एवमयमपि । एवं चानुबन्धादिभिः पृथग्भूते विद्यामये यज्ञेऽवमते सति विधिः परिकल्प्यते । दृष्टश्चानुवादसरूपेषु क
१॥
२॥
-३॥
४॥
For Private And Personal Use Only