________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.) पूर्वविकल्पाधिकरणम् .
३२९ इतश्चेष्टकचितेनाग्निना मनश्चितादीनां विकल्पः क्रियारूपत्वं चावगम्यते ; १"तेषामेकैक एव तावान् यावानसौ पूर्वः" इति पूर्वस्येष्टकचितस्याग्नेवीर्य मनश्चितादिष्वतिदिश्यते ; तेन तुल्यकार्यत्वाद्विकल्पः । ततश्चेष्टकचितवत्तत्क्रतुनिर्वर्तनेन तदङ्गभूताः मनश्चितादयः २(क्रियामयक्रत्वनुप्रवेशेन) क्रियारूपा एवेति ॥ ४५ ॥
एवं प्राप्ते प्रचक्ष्महेविद्यैव तु निर्धारणाद्दर्शनाच्च । ३।३।४६॥
तुशब्दः पक्षं व्यावर्तयति ; यदुक्तं मनश्चितादयः क्रियामयक्रत्वनुप्रवेशेन क्रियारूपा एवेति ; नैतदस्ति ; विद्यारूपा एवैते–विद्यारूपक्रत्वन्वयिन इत्यर्थः । कुतः १ निर्धारणादर्शनाचा निर्धारणं तावत्३"ते हैते विद्याचित एव विद्यया हैवैत एवंविदश्चिता भवन्ति" इति ; वाङ्मनश्चक्षुरादिव्यापाराणामिष्टकादिवच्चयनानुपपत्तेर्मनसा सम्पादितामित्वेन विद्यारूपत्वे सिद्धेऽपि ३"विद्याचित एव" ३"विद्यया हैवैते" इति चावधारणं विद्यामयक्रत्वन्वयेन विद्यारूपत्वज्ञापनार्थमिति निश्चीयते । दृश्यते चावैषां शेषी विद्यारूपः क्रतुः ४" ते मनसैवाधीयन्त मनसैवाचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसास्तुवन्त मनसाशंसन् यत्किश्व यज्ञे कर्म क्रियते, यत्किञ्च यज्ञीयं कर्म मनसैव तेषु मनोमयेषु मनश्चित्सु मनोमयमक्रियत" इति । इष्टकचितेष्वग्निषु यक्रियामयं यज्ञीयं कर्म क्रियते, तन्मनोनिवर्येषु मनश्चिताद्यनिषु मनोमयमेवाक्रियतेति वचनात् ऋतुरपि विद्यामयोऽत्र प्रतीयते ॥ ४६॥ ..
नन्वत्र विधिपदाश्रवणात् फलसम्बन्धाप्रतीतेश्चेष्टकचितान युपस्था पितक्रियामयक्रतुप्रकरणाविद्यामयक्रवन्वयेन विद्यारूपतेषां बाध्यते, नेत्याहश्रुत्यादिबलीयस्त्वाच्च न बाधः । ३॥ ३॥४७॥ १. ॥-२. कुण्डलितग्रन्थ: केषुचित्कोशेषु न दृश्यते ॥–३ ॥---४ ॥
*42
For Private And Personal Use Only