________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२८
श्रीशारीरकमीमांसाभाष्ये
[अ. ३.
दहरविद्यायामप्ययमेवोपास्य इति १ "पद्मकोशप्रतीकाशम्" इत्यादिना हदयाद्यभिधानं च युज्यत इत्यभिप्रायः ॥ ४३ ॥
इति वेदान्तदीपे लिङ्गभूयस्त्वाधिकरणम् ॥ १९ ॥
-~-~~-~( श्रीशारीरकमीमांसाभाष्ये पूर्वविकल्पाधिकरणम् ||२०|| )
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् । ३ । ३ । ४४ ॥
वाजसनेयके अमिरहस्ये मनश्चितादयोऽनयः श्रूयन्ते - २" मनवितो वाक्चितः प्राणचित चक्षुश्चितः श्रोत्रचितः कर्मचितोऽग्निचितः" इति । तत्र संशयः - किमेते मनश्चितादयस्साम्पादिकत्वेन विद्यारूपा अप्रयः क्रियामयत्वनुप्रवेशेन क्रियारूपाः, आहोस्विद्विद्यामयत्रत्वनुप्रवेशेन विद्यारूपा एव इति विशये क्रियारूपत्वं तावदाह - पूर्वविकल्पः — इत्यादिना । चित्यानित्वेन सम्पादितानामेषां मनश्वितादीनां ऋत्वनुप्रवेशसाकाङ्क्षाणां स्वदेशे ऋतुविध्यभावात्पूर्वत्र २" असा इदमग्र आ सीत्" इत्यादिनेष्टकचितस्याग्नेः प्रकृतत्वात् तस्य च क्रियामयकत्वव्यभिचारित्वेन तत्र ऋतुसन्निधानात्तत्प्रकरणगृहीता मनश्चितादयस्तेनेष्टकचितेनाग्निना विकल्प्यमानाः क्रियारूपा एव स्युः । विद्यारूपाणामपि क्रियामयऋत्वनुप्रवेशेन क्रियारूपत्वं मानसग्रहवदुपपद्यते । यथा द्वादशाहे अविवाक्ये दशमेऽहनि मानसग्रहस्य मनोनिष्पाद्यग्रहणासादनस्तोवशस्त्रप्रत्याहरणभक्षणत्वेन विद्यारूपस्यापि क्रियामयऋत्वङ्गतया क्रियारूपत्वम् ; तथेहापि ॥ ४४ ॥
अतिदेशाच्च । ३ । ३ । ४५ ॥
१. तै. ना. ११ - अनु ॥ २ ॥ ३ ॥
For Private And Personal Use Only