________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भ. ३ . ]
लिङ्गभूयस्त्वाधिकरणम् .
३२७
मध्ये परमात्मा व्यवस्थितः । स ब्रह्मा स शिवस्सेन्द्रः सोऽक्षरः परमस्वराट्” इति निर्देशैस्सर्वस्मात्परो नारायण एवं सर्वत्रोपास्य इति निffयमानत्वाच्च प्रथमार्थे द्वितीयेति निश्चीयते ॥ ४३ ॥
इति श्रीशारीरकमीमांसाभाष्ये लिङ्गभूयस्त्वाधिकरणम् ॥ १९ ॥
वेदान्तसारे -- लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ १" सहस्रशीर्षे देवम्" इत्यत्र नारायणशब्देन प्रकृतदहरविद्योपास्यमात्रं न विशेष्यते, अपितु सर्वपरविद्यासुपास्यम् तचिह्नभूतवाक्यभूयस्त्वादेव । अक्षरशिवशम्भुपरब्रह्मादिशब्देस्सर्वोपास्याननूद्य नारायणत्वं हि विधीयते । प्रकरणाद्धि वाक्यं बलीयः । तदपि २" श्रुतिलिङ्ग” इत्यादिनोक्तम् ॥ ४३ ॥
इति वेदान्तसारे लिङ्गभूयस्त्वाधिकरणम् ॥ १९ ॥
वेदान्तदीपे - लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ तैत्तिरीया अधीयते १ " सहस्रशीर्ष देवम्" इत्यारभ्य १" सोऽक्षरः परमस्स्वराट्" इत्यन्तम् । अस्मिन्ननुवाके नोपासनं विधीयते । किमयं पूर्वानुवाकोदि तदहरविद्योपास्यविशेषनिर्धारणार्थः, उत सर्ववेदान्तोदितसर्वपरविद्योपास्यविशेषनिर्धारणार्थ इति संशयः । दहरविद्याया आनन्तर्यात्तदुपास्यविशेषनिर्धारणार्थ इति पूर्वः पक्षः, १ " सहस्रशीर्षे देवम्' इति द्वितीयानिर्देशस्यानन्तरोदितोपासिना सम्बन्धस्यैव युक्तत्वाश्च । राद्धान्तस्तु - परब्रह्मपरतत्त्व परज्योतिः परमात्माक्षरशिवशम्भुशब्दस्सर्वपरविद्योपास्याननूद्य वाक्येनैव तेषां नारायणत्वविधानान्तस्य च प्रकरणाद्वलीयस्त्वेन सर्वविद्योपास्यनिर्धारणार्थ इति निश्चीयते । नच १ " स हस्रशीर्षम्” इति द्वितीयानिर्देशः पूर्वेणोपासना सम्बध्यते, ३" तस्मिन्यदन्तस्तदुपासितव्यम्" इति कृत्प्रत्ययेन कर्माभिहितमिति तत्र द्वितीयानिर्देशायोगात् । १" नारायणः परः" १ " व्याप्य नारायणस्स्थितः " १ " परमात्मा व्यवस्थितः " इत्यादिभिरैकार्थ्यात्प्रथमार्थे द्वितीया । सुत्रार्थस्तु सर्वपरविद्योपास्यनिर्धारणे लिङ्गभूयस्त्वात् तचिह्नभूतवाक्यभूयस्त्वादित्यर्थः । तद्धि वाक्यं प्रकरणाद्वलीयतदपि पूर्वस्मिन्काण्डे २" श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षात्" इत्यादिनोक्तम् । एवं सर्वोपास्यनिर्धारणे निश्चिते सति
१. तै. ना. ११- अनु ॥–२, पूर्वमीमांसासू ॥ - ३. तै. ना. १० - अनु ॥
For Private And Personal Use Only