________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६
श्रीशारीरकमीमांसाभाष्ये [म. ३. शेषनिर्धारणमिति । कुतः प्रकरणात् । पूर्वस्मिन्ननुवाके दहरविद्याहि प्रकृता ? "दहं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् । तत्रापि दहं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम्" इति । अस्मिश्चानुवाके २ "पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम्" इत्यादिना हृदयपुण्डरीकाभिधानमस्य नारायणानुवाकस्य दहरविद्योपास्यनिर्धारणार्थत्वमुपोद्दलयतीति ।।
__एवं प्राप्ते प्रचक्ष्महे-लिङ्गभूयस्त्वात्-इति । अस्य निखिलपरविद्योपास्यविशेषनिर्धारणार्थत्वे भूयांसि लिङ्गानि दृश्यन्ते ; तथा हि -परविद्याखक्षरशिवशम्भुपरब्रह्मपरज्योतिःपरतत्त्वपरमात्मादिशब्दनि - र्दिष्टमुपास्यं वस्त्विह तेरेव शब्दैरनूद्य तस्य नारायणत्वं विधीयते ; भूयसीषु विद्यासु श्रुतानन्द्य नारायणत्वविधानभूयस्त्वं नारायण एव स
विद्यासूपास्यमस्थूलत्वादिविशेषितानन्दादिगुणकं परं ब्रह्मेति विशेषनिर्णये भूयः बहुतरं लिङ्गं भवति । अत्र लिङ्गशब्दः चिह्नपर्यायः । चिहभूतं वाक्यं बहुतरमस्तीत्यर्थः। तद्धि प्रकरणादलीयः। तदप्युक्तं प्रथमकाण्डे ३"श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षात्" इति । यत्तूक्तं २ “पद्मकोशप्रतीकाशम्" इत्यादिवचनं दहरशेषत्वमस्योपोद्धलयति-इति; तन्न, बलीयसा प्रमाणेन सर्वविद्योपास्यनिर्धारणार्थत्वेऽवधृते सति दहरविद्यायामपि तस्यैव नारायणस्योपास्यत्वेन तद्वचनोपपत्तेः । नच २"सहस्रशीर्षम्" इत्यादिद्वितीयानिर्देशन पूर्वानुवाकोदितोपासिना सम्बन्धश्शङ्कनीयः, १"तस्मिन् यदन्तस्तदुपासितव्यम्" इत्युपासिगतेन कृत्प्रत्ययेनोपास्यस्य कर्मणोऽभिहितत्वात्तदुपास्ये द्वितीयानुपपत्तेः। २“विश्वमेवेदं पुरुषः" २"तत्त्वं नारायणः परः" इत्यादिप्रथमानिर्देशाच्च प्रथमार्थे द्वितीया वेदितव्या । २“अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः" २"तस्याश्शिखाया
१. ते. ना. १० .अनु ॥–२, ते. ना. ११-अनु ॥३. पूर्वमीमांसासू ॥
For Private And Personal Use Only