________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] लिङ्गभूवस्त्वाधिकरणम्.
३२५ वेदान्तसारे-प्रदानवदेव तदुक्तम् ॥ दहरविद्यायामपहतपाप्मत्वादिगुणविशिष्टोपासने, तत्तद्गणविशिष्टस्वरूपभेदात् प्रतिगुणं गुण्यावृत्तिः, १इन्द्राय राजे" इत्यादिषु विशिष्टस्वरूपभेदात्प्रदानावृत्तिवत् । तदुक्तं २ "नाना वा देवता पृथक्त्वात्" इति ॥ ४२ ॥
__इंति वेदान्तसारे प्रदानाधिकरणम् ।। १८ ॥
वेदान्तदीपे-प्रदानवदेव तदुक्तम् ॥ दहरविद्यायां ३ "तद्या इहात्मानमनुविद्य वजन्स्येतांश्च सत्यान् कामान" इत्यपहतपात्मत्वादिगुणानामपि पर मात्मस्वरूपचिन्तनवत्पृथक्चिन्तनं विहितमाकिं गुणचिन्तने तत्तद्गुणविशिष्टतया परमात्मचिन्तनमावर्तनीयम्, उत नेति संशयः । परमात्मन एकस्यैव सर्वेषां गुणानां गुणित्वेन सकृदेव तश्चिन्तनोपपत्ते वर्तनीयमिति पूर्वः पक्षः । राद्धान्तस्तु-गुणिनस्वरूपैक्येऽपि तत्तद्गुणविशिष्टाकारभेदादावर्तनीयम्-इति । सूत्रार्थस्तु-प्रदानवदावर्तनीयमेव, यथा १'इन्द्राय राक्षे पुरोडाशमेकादशकपा लमिन्द्रायाधिराजायेन्द्राय खराक्षे" इतीन्द्रस्यैकत्वेऽपि राजत्वादिविशिष्टाकार' भेदाहेवताभेद इति प्रदानावृत्तिः, तद्वदेव। तदुक्तं सङ्कर्षेर “नाना वा देवता पृ. थक्त्वात्" इति ॥४२॥
___इति वेदान्तदीपे प्रदानाधिकरणम् ॥ १८ ॥ ---(श्रीशारीरकमीमांसभाष्ये लिङ्गभूयस्त्वाधिकरणम् ॥)...लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि । ३।३।४३॥
तैत्तिरीया दहरविद्यानन्तरमधीयते ४"सहस्रशीर्ष देवं विश्वाक्ष विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं परमं प्रभुम्" इत्यारभ्य
"सोऽक्षरः परमस्वराद" इत्यन्तम् । तत्र संशयः-किं पूर्वप्रकृतविद्ययैकवियात्वेन तदुपास्यविशेषनिर्धारणमनेन क्रियते, उत सर्ववेदान्तोदितपरविद्योपास्यविशेषनिर्धारणम्-इति। किं युक्तम् ? दहरविद्योपास्यवि
१. यजु-२. कां-३. प्र-६-अनु ॥-२.संकर्षणकाण्डे ॥-३. छा. ८-१-६॥-४. ते. ना-१-अनु॥
For Private And Personal Use Only