________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२ श्रीशारीरकमीमांसाभाष्ये
[म. ३. प्राप्तिवचनात् न तत्सांसारिकं फलम् ,अपितु साक्षान्मुक्तस्यैव, १"अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते । स उत्तमः पुरुषः स तत्र पर्येति जक्षत्क्रीडव्रममाणः स्त्रीभिर्वा यानैर्वा शातिभिर्वा नोपजनं स्मरनिदं शरीरम्" इति २"स खराइभवति तस्य सर्वेषु लोकेषु कामचारो भवति" इतिच निवृत्ताविद्यस्य हि स्वेन रूपेणाभिनिष्पन्नस्यैवोच्यतेः अतो ब्रह्मोपसम्पत्तिहेतुकत्वं क्रीडनादेरवगम्यते ॥४०॥
इति वेदान्तदीपे कामाद्यधिकरणम् ।। १६ ।। -..(श्रीशारीरकमीमांसाभाष्ये तन्निर्धारणानियमाधिकरणम्।।)...तन्निर्धाणानियमस्तदृष्टेः पृथग्ध्यप्रतिबन्धः
फलम् । ३।३।४१॥ ३ " ओमित्येतदक्षरमुद्गीथमुपासीत" इत्यादीनि कर्मामाश्रयाण्युपासनानि काङ्गभूतोद्गीथादिमुखेन जुह्वादिमुखेन पर्णतादिवत् कर्माङ्गत्वेन निरूढानुष्ठानानीत्युद्गीथायुपासनसम्बन्धिनो ४ " यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति" इति वर्तमाननिर्देशस्य पर्णतादिसम्बन्ध्यपापश्लोकश्रवणवत्पृथक्फलत्वकल्पनायोगात्क्रतुषु नियमेनोपसंहार्याणीति ॥
---(सिद्धान्तः)--- एवं प्राप्ते प्रचक्ष्महे-तनिर्धारणानियमः-इति । निर्धारणं-निश्चयेन मनसोऽवस्थापनम्, ध्यानमित्यर्थः; तनिर्धारणानियम-कर्ममृद्गीथाधुपासनानामनियमः; कुतः तद्दष्टेः उपलभ्यते छुपासनानुष्ठानानियमः४"तेनोभी कुरुतो यश्चैतदेवं वेद यश्च न वेद" इत्यविदुषोऽप्यनुष्ठानवच. नात् । नचाङ्गत्वे सत्युपासनस्यानुष्ठानानियम उपपद्यते । एवमुपासनस्यानङ्गत्वे निश्चिते सत्युपासनविधेः फलाकाङ्क्षायां रात्रिसनन्यायेन वीयवत्तरत्वं कर्मफलात्पृथग्भूतं फलमित्यवगम्यते । किमिदं वीर्यवत्तरत्वम्।
१. ग. ८-३-४॥-२. छा. ७-२५-२ ॥-३. छा, १-१-१॥-४.छा.१-१-१०॥
For Private And Personal Use Only