SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३. ] तनिर्धारणानियमाधिकरणम्. कर्मफलस्यैवाप्रतिबन्धः । प्रतिबध्यते हि कर्मफलं प्रबलकर्मान्तरफलेन तावन्तं कालम् ; तदभावोऽप्रतिबन्धः । स प्रतिबन्धः कर्मफलात्स्वर्गादिलक्षणात्पृथग्भूतमेव फलम् । तदिदमुच्यते - पृथग्ध्यप्रतिबन्धः फलमिति । अतः कर्माङ्गाश्रयाणामपि पृथक्फलत्वाद्गोदोहनादिवत्कर्मसूद्गीथाद्युपासनानामनियमेनोपसंहारः ॥ ४१ ॥ इति श्रीशारीरकमीमांसाभाष्ये तन्निर्धारणानियमाधिकरणम् ॥ १७ ॥ वेदान्तसारे — निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ।। उद्गीथाद्युपासनस्य क्रतुषु गोदोहनादिवदुपादानानियमः १" तेनोभौ कुरुतो यचैतदेवं वेद यश्च न वेद" इत्युद्गीथोपासनरहितस्यापि क्रत्वनुष्ठानदर्शनात् । १" यदेव विद्यया करोति तदेव वीर्यवत्तरम्" इति वर्तमाननिर्देशे ऽपि क्रतुवीर्यवत्तरत्वसाधनतयोपासनविधिः कल्प्यते । वीर्यवत्तरत्वन्नाम प्रबलकर्मान्तराप्रतिबन्धेनाविलम्बितफलत्वम् । अतः क्रतुफलात्पृथक्फलमुद्गीथोपासनमित्यनियमः ॥ ४१ ॥ इति वेदान्तसारे तन्निर्धारणानियमाधिकरणम् ॥ १७ ॥ ३२३ वेदान्तदीपे निर्धारणानियमस्तद्दष्टेः पृथग्ध्यप्रतिबन्धः फलम् ।। छान्दोग्ये २ 'ओमित्येतदक्षरमुद्गीथमुपासीत" इति कर्माङ्गाश्रयमुद्गीथाद्युपासनं श्रूयते; तत्किं तस्मिन्कर्मणि पर्णतादिवन्नियमेनोपादेयम्, उत गोदोहनादिवदनियमेनेति संशयः । कर्माङ्गाश्रयत्वेन पर्णतादिवत्तद्दारेण निरूढकार्यतया १"यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' इति वर्तमाननिर्देशस्य पृथक्फल ३ प्रतिपादनायोगात् क्रत्वर्थतया नियमेनोपादेयमिति पूर्वः पक्षः। राद्धान्तस्तु -- १" तेनोभौ कुरुतो यश्चैतदेवं वेद यश्व न वेद" इत्युद्गीथोपासनरहितस्यापि त्वनुष्ठानदर्शनात्क्रतुफलात्स्वर्गादेः पृथग्भूतवीर्यवत्तरत्वफलमिद मुपासनमिति गोदोहनादिवद नियमः । वर्तमाननिर्देशे सत्यप्यधिकारान्तरनि श्वये सति रात्रिसत्रवत् क्रतोर्वीर्थव त्तरत्वमस्योपासनस्य कल्पनीयम् । सूत्रार्थस्तु -तनिर्धारणानियमः – निर्धारणम्-निश्चयेन चेतसोऽवधारणम्, उपासनमि १. छा. १-१-१० ॥ -२. हा. १-१-१॥ - ३. प्रतिपादकत्वायोगात् पा ॥ • For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy