SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] कामाधधिकरणम्. दिना परिचोध, १" तस्मिन्कामास्समाहिताः एष आत्माऽपहतपाप्मा विजरो विमृत्युः" इस्यारभ्य १" सत्यकामस्सस्यसङ्कल्पः" इत्युक्त्वा, २"तद्य इहास्मानमनुविद्य वजन्त्येतांश्च सस्थान्कामान्" इत्याकाशशब्दनिर्दिष्टः परमात्मा; तदन्तर्गताच सत्यकामत्वसत्यसङ्कल्पत्वापहतपाप्मत्वादयो गुणाः। अतः परमात्मा हदयायतनः सत्यकामत्वादिविशिष्टः उपास्य इति वाक्येनैव निर्णीतम् । वाजसनेयके च ३" य एषोऽन्तहृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी" इत्युके सति वशित्वादेस्सत्यसङ्कल्पत्वविशेषरूपतया स एव परमात्मा हृदयायतनस्सत्यसङ्कल्पत्वविशिष्ट उपास्य इति प्रतीयते । अतो दहरविद्याप्रत्यभिज्ञानात्स एव परमात्मा सत्यसङ्कल्पत्वादिगुणाष्टकविशिष्ट उपास्य इति निश्चीयते । एवं निश्चिते सत्याकाशे शयान इत्याकाशशब्दोऽपि हृदयपुण्डरीकवाकाशवाचीति रूपाभेदादिद्यैक्यमेव ॥ सूत्रार्थस्तु-कामादीतरत्र तत्र च–वाजसनेयके च्छान्दोग्ये च सत्यकामत्वाद्येव रूपम् ; कुतः? आयतनादिभ्यः हृदयायतनत्वसत्यसङ्कल्पत्वविशेषरूपवशित्वादिभ्यस्तत्सहचारिणस्सत्यकामत्वादेः प्रत्यभिज्ञानात् । ४ 'परं ज्योति. रुपसम्पद्य खेन रूपेणाभिनिष्पद्यते"५"अभयं वै ब्रह्म भवति" इति ब्रह्मप्राप्तिरूपं फलं चैकमिति विवैक्यम् ॥ ३८ ॥ ६"मनसैवानुद्रष्टव्यं नेह नानाऽस्ति किञ्चन" इत्यादेः पूर्वप्रकृतत्वात् , ७ "एष नेति नेस्यात्मा' इति च वक्ष्यमाणत्वात् , ६"सर्वस्य वशी सर्वस्येशानः" इत्यादिविशेषाणां ब्रह्मखरूपत्वाभावात् कथं सत्यकामत्वादेर्मोक्षसाधनोपासनरूपत्वमित्यत आह आदरादलोपः॥ वशित्वादेः प्रमाणान्तराविदितरूपस्य श्रुत्येकलमधिगम्यस्यादरेण प्रतिपादनादलोपः-अप्रतिषेधः; तस्यापि ब्रह्मगुणत्वमवश्याश्रयणीयम् ; ८अविशेष निषेधास्तु सकलेतरप्राकृतविशेषविषयाः,नानात्वनिषेधस्तु सर्वस्य ब्रह्मकार्यतयाऽब्रह्मात्मकत्वाभिप्रायः ॥ ३९॥ सगुणोपासनस्य ९"स यदि पितृलोककामो भवति" इति सांसारिकफल. त्वेन न मोक्षफलत्वमित्याशङ्कयाह उपस्थितेऽतस्तद्वचनात् ॥ उपस्थितिः - उपस्थानम् , ब्रह्मोपसम्पत्तिः, उपस्थिते-ब्रह्मोपसम्पन्ने, अतः ब्रह्मोपसंपत्तेरेव हेतोः, तद्वचनात्-पितृलोकादि. १. छा. ८.१-५॥-२, छा.८-१-६ ॥-३. बु. ६-४-२२ ॥-४. छा. ८.३-४ । -५. 1. ६-४-२५॥-६, १.६.४-१९॥-७..६.४-२२॥--८. विशेषनिषेधा.पा। -९.छा.८-२,१॥ *41 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy