________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे
[म. ३. वेदान्तसारे-कामादीतरत्र तत्र चायतनादिभ्यः॥ १" दहारोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्" इत्युक्त्वा २" एष आत्माऽ. पहतपाप्मा" इत्यारभ्य, २" सत्यकामस्सत्यसङ्कल्पः” इति च्छान्दोग्ये; वा जिनाच ३“य एषोऽन्तदृदय आकाशस्तस्मिञ्छेते सर्वस्य षशी सर्वस्येशानः" इति। उभयत्र हृदयायतमत्वसत्यसङ्कल्पत्वतद्विशेषरूपवशित्वादिभिर्दहरविद्याप्रस्यभिज्ञानात् सत्यसङ्कल्पत्यसहचरिणोऽपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्ताः उभयत्रोपसंहार्याः ॥ ३८॥
आदरादलोपः॥ ४"नेह नानाऽस्ति किशन" ५“स एष नेतिनेत्यात्मा” इति निषेधो न वशित्वादिगुणविषयः ५“ सर्वस्य वशी सर्वस्येशानः" इति तेषामशातानामादरेण विधानात् ; अतो न लोपः। सर्वस्य ब्रह्मकार्यतयैक्यात् ४"नेह नानाऽस्ति " इत्यब्रह्मात्मकनानात्वं प्रतिषिध्यते, ५" स एष ने तिनेस्यात्मा' इति च ६प्राकृतविशेषविषयम् ॥ ३९॥
उपस्थितेऽतस्तद्वचनात् ।। उपस्थिते-ब्रह्मोपसंपन्ने, अतः-उपसंपत्तेरेव हेतोः, ५"अक्षत्क्रीडब्रममाणः" इत्यादिना छन्दतो शात्यादिप्राप्तयभिधानात् , साक्षान्मोक्षफलं तत् , न सांसारिकफलमिति परविद्यैवैषा सगुणा ॥ ४०॥
इति वेदान्तसारे कामाद्यधिकरणम् ॥ १६ ॥
वेदान्तदीपे-कामादीतरत्र तत्र चायतनादिभ्यः॥ छान्दोग्ये थूयते १“अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्" इत्यादि प्रक्रम्य ७" तद्य इहात्मानमनुविद्य वजन्स्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति" इति; वाजस नेयके च ३“य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशानः" इत्यादि ; किमुभयत्र विद्यैक्यम् , अत विद्याभेद इति संशयः; रूपभेदाविद्याभेद इति पूर्वः पक्षः, यद्यप्युभयत्र परमात्मैवोपास्यः, तथाप्येकत्राकाशशब्दाभिधेयः परमात्मोपास्यः, इतरत्राकाशे शयानः परमात्मेति हि रूपं भिद्यते। राद्धान्तस्तु---हृदयायतनत्वसत्यसङ्कल्पत्वसत्यकामत्वादेरभेदादुभयत्र तद्विशिटः परमात्मैवोपास्य इति रूपाभेदाद्विद्यैक्यम् छान्दोग्ये हि १"दहरोऽस्मिन्नन्तर आकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्" इत्यारभ्य, ८"किं तदत्र विद्यते" इत्या.
१. छा. ८.११ ।।-२, छा. ८-१-५।।-३.६.६-४-२२॥-४...६.४-१९॥५.का.८.१२.३॥-६. प्रकृतविशेषविषयः. पा॥--७.छा. ८-१-६।।-८.छा. ८.१.२।।
For Private And Personal Use Only