________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.
कामाद्यधिकरणम् . पञ्चविलक्षणत्वं प्रतिपाद्यते । तदेव चानन्तरमुपपादयति १“अग्राह्यो न हि गृह्यते अशीर्यो नहि शीर्यते असङ्गो नहि सज्यते अव्यथितो न व्यथते न रिष्यति" इति । प्रमाणान्तरग्राह्यविसजातीयत्वात्प्रमाणान्तरेण न गृह्यते ; विशरणीयविसजातीयत्वान्न विशीयते । एवमुत्तरत्रानुसन्धेयम् । छान्दोग्येऽपि २ "नास्य जरयैतज्जीयति न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरमस्मिन् कामास्समाहिताः" इति सर्वविसजातीयत्वं ब्रह्मणः प्रतिपाद्य त स्मिन् सत्यकामत्वादयो विधीयन्ते ॥ ३९ ॥
नन्वेवमपि २"तद्य इहात्मानमनुविद्य वजन्त्येताँश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति स यदि पितृलोककामो भवति" इत्यादिना सत्यकामादिगुणविशिष्टवेदनस्य सांसारिकफलसम्बन्धश्रवणान्मुमुक्षोर्ब्रह्मप्रेप्सोन सगुणं ब्रह्मोपास्यम् परविद्याफलं च३"परं ज्योतिरुपसम्पद्य स्खेन रूपेणाभिनिष्पद्यते" इतीदमेव । अतस्सत्यकामत्वादयो ब्रह्म प्रेप्सोर्नोपसंहार्या इति ; अत उत्तरं पठतिउपस्थितेऽतस्तद्वचनात् । ३।३।४०॥
उपस्थितिः-उपस्थानम् , ब्रह्मोपसम्पन्न सर्वबन्धविनिर्मुक्ते खेन रूपेणाभिनिष्पन्ने प्रत्यगात्मनि अत एव-उपसम्पत्तेरेव हेतोस्सर्वेषु लो केषु कामचार उच्यते ३"परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षत्क्रीडव्रममाणः स्त्रीभिर्वा याना ज्ञातिभिर्वा नोपजनं म्मरनिदं शरीरं स खराइभवति तस्य सर्वेषु लोकेषु कामचारो भवति" इति । तदेतच्चतुर्थे निपुणतरमुपपादयिष्यते। अतस्सर्वेषु लोकेषु कामचारस्य मुक्तोपभोग्यफलत्वात् मुमुक्षोस्सत्यकामत्वादयो गुणा उपसंहार्याः॥४०॥
___ इति श्रीशारीरकमीमांसाभाष्ये कामाद्यधिकरणम् ।। १६ ।।
१. इ. ६.४.२२ ।।-२. का. ८-१-५, ६ ॥-३. छा. ८-३-४ ।।
For Private And Personal Use Only