________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
श्रीशारीरकमीमांसामाचे
[म... आदरादलोपः । ३ । ३ । ३९॥ ___ ब्रह्मगुणत्वेन प्रमाणान्तराप्राप्तानां गुणानामेषां सत्यकामत्वादीनां १"तस्मिन् यदन्तस्तदन्वेष्टव्यम्" २ "एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः" ३"सर्वस्य वशी सर्वस्येशानः" ३ "एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय" इत्यादिभिरनयोः श्रुत्योरन्यासुच मोक्षार्थोपासनोपास्यब्रह्मगुणत्वेन सादरमुपदेशादेषामलोपः; अपितूपसंहार एव कार्यः । छान्दोग्य तावत् ४"तद्य इहात्मानमनुविद्य वजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति" इति सत्यकामत्वादिगुणविशिष्टस्य ब्रह्मणो वेदनमभिधाय ४“अथ य इहात्मानमननुविद्य वजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेष्वकामचारो भवति" इत्यवेदननिन्दा क्रियमाणा गुणविशिष्टवेदनस्यादरं दर्शयति। तथा वाजसनेयके ३"सर्वस्य वशी सर्वस्येशानः" ३“एष सर्वेश्वर एष भूताधिपतिरेष भूतपालः" इति भूयोभूय ऐश्वर्योपदेशाद्गणेष्वादरः प्रतीयते । एवमन्यत्रापि । न च मातापितृसहस्रेभ्योऽपि वत्सलतरं शास्त्रं प्रतारकवदपारमार्थिकानिरसनीयान् गुणान् प्रमाणान्तरापतिपनानादरेणोपदिश्य संसारचक्रपरिवर्तनेन पूर्वमेव बम्भ्रम्यमाणान्मुमुक्षन् भूयोऽपि भ्रमयितुमलम् । ५"नेह नानाऽस्ति किश्चन" ६“एकधैवानुद्रष्टव्यम्" इति तु सर्वस्य ब्रह्मकार्यत्वेन तदात्मकत्वादेकधाऽनुदर्शनं विधायाब्रह्मात्मकत्वेन पूर्वसिद्धनानात्वदर्शनं निषेधतीत्ययमर्थः प्रागेव प्रपश्चितः। ७“स एष नेतिनेत्यात्मा" इत्यत्र चेतिशब्देन प्रमाणान्तरपतिपन्नं प्रपश्चाकारं परामृश्य न तथाविधं ब्रह्मेति सर्वात्मभूतस्य ब्रह्मणः प्र
१. छा. ८-१-१ ।।-२. छा. ८-१-५ ।।---३. बृ. ६-४-२२ ।। ---४. छा. ८-१-६॥-५, ६, ७. बृ. ६-४-१९, २०, २२ ॥
For Private And Personal Use Only