________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.]
कामापधिकरणम् . व तत्र च कामायेव हि रूपं-वाजसनेयके छान्दोग्ये च सत्यकामादिविशिष्टमेव ब्रह्मोपास्यमित्यर्थः । कुत एतदवगम्यते ? आयतनादिभ्यः-हृदयायतनत्वसेतुत्वविधरणत्वादिभिस्तावदुभयत्र सैव विद्येति प्रत्यभिज्ञायते ; वशित्वादयश्च वाजसनेयके श्रुताः छान्दोग्यश्रुतस्य गुणाएकान्यतमभूतस्य सत्यसङ्कल्पत्वस्य विशेषा एवेति सत्यसझल्पत्वसहचारिणां सत्यकामत्वादीनामपहतपाप्मत्वपर्यन्तानां सद्भावमवगमयन्ति ; अतो रूपं न भिद्यते । संयोगोऽपि १“परं ज्योतिरुपसम्पद्य खेन रूपे णाभिनिष्पद्यते" २"अभयं वै ब्रह्म भवति" इति ब्रह्ममाप्तिरूपो न भिछते । आकाशशब्दः छान्दोग्ये परमात्मविषय इति, ३ "दहर उत्तरेभ्यः" इत्यत्र निर्णीतम् । वाजसनेयके त्वाकाशे शयानस्य वशित्वादिश्रवणातस्य शयानस्य परमात्मत्वे सति तदाधाराभिधायिन आकाशशब्दस्य ४"तस्यान्ते सुषिरं सूक्ष्मम्" इति हृदयान्तर्गतस्य सुषिरशब्दवाच्यस्मा काशस्याभिधायकत्वमवगम्यते । अतो वियैक्यम् ॥ ३८ ॥
अथ स्पात्-यदुक्तं वाजसनेयके वशित्वादिभिस्सह सत्यकामत्वादिसद्भावोऽवगम्यते-इति । तन्नोपपद्यते, वशित्वादीनामेव तत्र परमार्थतस्सद्भावाभावात् । तदभावश्च ५"मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योस्समृत्युमामोति य इह नानेव पश्यति"५"एकधैवानुद्रष्टव्यमेतदप्रमेयं ध्रुवम्" इति प्रकृतेन वाक्येन ५“स एष नेतिनेत्यात्मा" इत्युत्तरेणचोपास्यस्य ब्रह्मणो निर्विशेषत्वप्रतीतेरवगम्यते ; अतो वशित्वादयोऽपि स्थूलत्वाणुत्ववनिषेध्या इति प्रतीयन्ते, अत एव छान्दोग्येऽपि सत्यकामत्वादयो न ब्रह्मणः पारमार्थिका गुणा उच्यन्ते; अतोऽपारमार्थिकत्वादेवंजातीयकानां गुणानां मोक्षार्थेष्पासनेषु लोप इति । तत्राह
१. छा. ८.३-४॥-२. १. ६.४.२५।।-३. शारी. १-३-१३।।-४. तै. ना. ११-अनु ।।-५. वृ. ६-४-१९, २०, २२ ।।
For Private And Personal Use Only