________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.) मन्तरत्वाधिकरणम् .
३११ नमाह-१" न दृष्टेद्रष्टारं पश्येः" इत्यादिना । इन्द्रियाधीनानां दर्शनश्रवणमननविज्ञानानां कोरं प्रत्यगात्मानं प्राणनस्य कर्तृत्वेनोक्त इति न मन्वीथाः तस्य मुषुप्तिमूर्छादो प्राणनादेरकर्तृत्वात् । २"को सेवान्या
कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्" इति सर्वप्राणिपाणनहेतुत्वं हि परमात्मन एवान्यत्र श्रुतम् । अतः पूर्वप्रश्नपतिवचने परमात्मविषये। एवमुनरे अपि,अशनायाबतीतत्वस्य परमात्मासाधारणत्वात्। उभयत्र १" अतोऽन्यदातम्" इत्युपसंहारश्चैकरूपः । प्रश्नपतिवचनातिस्तु कृत्स्नपाणिप्राणनहेतोः परस्य ब्रह्मणोऽशनायाद्यतीतत्वप्रतिपाद नाय । तत्र दृष्टान्तमाह-उपदेशवदिति । यथा सद्विद्यायाम् ३" उत तमादेशमपाक्ष्यः" इति प्रकान्ते सदुपदेशे ४"भगवांस्त्वेव मे तहीत्वि ति" ५"भूय एव मा भगवान् विज्ञापयतु" इति प्रश्नस्य६ “एषोऽणिमा ऐतदात्म्यमिदं सर्व तत्सत्यम्" इति प्रतिवचनस्य च भूयोभूय आत्तिस्सतो ब्रह्मणस्तत्तन्माहात्म्यविशेषप्रतिपादनाय दृश्यते ; तद्वत् । अत एकस्यैव सर्वान्तरभूतस्य ब्रह्मणः कृत्स्नपाणिप्राणनहेतुत्वाशनायाद्यतीतत्वप्रतिपादनेन रूपेक्याद्विद्यैक्यम् ॥ ३५ ॥ __अथ स्यात्-यद्यप्युभे प्रश्नपतिवचने परब्रह्मविषये ; तथापि विधाभेदोऽवर्जनीयः, एकत्र सर्वप्राणिप्राणनहेतुत्वेनोपास्यम्, इतरत्राशनायाबतीतत्वेनेत्युपास्यगुणभेदेन रूपभेदात् , प्रष्ट्रभेदाच्च , पूर्वत्र उपस्तः प्रष्टा; उत्तरत्न कहोलः-इति ; तत्राहव्यतिहारो विशिंषन्ति हीतरवत् । ३।३। ३६॥
नात्र विद्याभेदः, प्रश्नपतिवचनाभ्यामेकरूपार्थविषयाभ्यामेकेन च विधिपदेनैकवाक्यत्वप्रतीतेः। प्रश्नद्वयं तावत्सर्वान्तरात्मत्वविशिष्टब्रह्म
१... ५.४.२, ५-५-१ ॥-२. ते. आन. ७-१॥-३. छा. ६-१-३॥४. छा. ६-१-७ -५, छा. ६-५-४॥-६. छा. ६-९.४ ॥
For Private And Personal Use Only