SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१२ श्रीशारीरकमीमांसाभावे [अ. ३. विषयम् । द्वितीये प्रश्ने १ “यदेव साक्षादपरोक्षाब्रह्म य आत्मा सर्वान्तरः" इत्येवकारश्च पूर्वत्रोषस्तन पृष्टगुणविशिष्टब्रह्मविषयत्वं कहोलप्रश्नस्यावधारयति । प्रतिवचनं चोभयत्र “स त आत्मा सर्वान्तरः" इति सर्वान्तरात्मत्वविशिष्टब्रह्मविषयमेकरूपमेव । विधिप्रत्ययश्चोत्तरत्रैव दृश्यते १"तस्माद्राह्मणः पाण्डित्य निर्विद्य बाल्येन तिष्ठासेत्" इति। एवं सर्वान्तरास्मत्वविशिष्टब्रह्मैकविषयत्वे द्वयोरवगते सत्येकस्मिन्नेव सर्वान्तरात्मत्वविशिष्टे ब्रह्मण्युपास्ये उषस्तकहोलयोरितरेतरबुद्धिव्यतिहारः कर्तव्यः। उपस्तस्य या सर्वान्तरात्मनो ब्रह्मणस्सर्वप्राणिप्राणनहेतुत्वविषया बुद्धिः; सा कहोलेनापि प्रष्ट्रा कार्या; या च कहोलस्य तस्यैव ब्रह्मणोऽशनायाद्यतीतत्वविषया बुद्धिः, सा उषस्तेनापि कार्या । एवं व्यतिहारे कृते उभाभ्यां सर्वान्तरस्य ब्रह्मणो जीवव्यावृत्तिरवगता भवति । एनं सर्वान्तरात्मानं प्रत्यगात्मनो व्यावृत्तमवगमयितुं सर्वप्राणिपाणनहेतुत्वाशनायाद्यतीतत्वप्रतिपादनेन विशिंषन्ति हि याज्ञवल्क्यस्य प्रतिवचनानि । अतो ब्रह्मणस्सर्वान्तरात्मत्वमेवोपास्यगुणः । प्राणनहेतुत्वादयस्तु तस्योपपादकाः नोपास्याः। ननूपास्यगुणः सर्वान्तरात्मत्वमेव चेत्-प्राणनहेतुत्वस्य अशनायाद्यतीतत्वस्य च प्रष्टोः व्यतिहत्यानुसन्धानं किमर्थम्?; तदुच्यतेसर्वप्राणिप्राणनहेतुत्वेन सर्वान्तरात्मनि जीवाव्यावृत्ते ब्रह्मण्युषस्तेनावगते सति कहोलेन जीवस्य सर्वात्मना असम्भावितेन स्वभावविशेषेण सर्वान्तरात्मा व्यावृत्तोऽनुसन्धेय इति कृत्वा पुनः प्रश्नः कृतः। याज्ञवल्क्योपि तदभिप्रायमभिज्ञाय प्रत्यगात्मनोऽसम्भावितमशनायादिप्रत्यनीकत्वमुक्तवान् । अतश्वोपास्यस्य व्यावृत्तिप्रतीतिसिद्ध्यर्थमुभाभ्यां परस्परबुद्धिव्यतिहारः कर्तव्यः। इतरवत्-यथेतरत्र सद्विद्यायां भूयोभूयः प्रश्नः प्रतिवचनैश्च तदेव सद्ब्रह्म व्यवच्छिद्यते न पुनः पूर्वप्रतिपन्नाद्गणाद्गणान्तरविशिष्टतयोपास्य प्रतिपाद्यते तद्वत् ॥ ३६ ॥ १. ४. ५-५-१॥--२. वृ. ५-४-१॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy