SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१. भीशारीरकमीमांसामाध्ये (भ. ३ अन्यथा मुख्यान्तरात्मपरिग्रहलोभात्परमात्मस्वीकारे प्रतिवचनभेदो नोपपद्यते । प्रतिवचनं हि पूर्वत्र प्रत्यगात्मविषयम् , परमात्मनः पाणितत्वापानितृत्वाधसम्भवात् । परं च परमात्मविषयम् , अशनायापिपासाद्यतीतत्वात्। तदिदमाशङ्कते-अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरितिचेत्-इति । अन्तरा-सर्वान्तरत्वेन प्रथमप्रतिवचनं भूतग्रामरत्खात्मन:-भूतग्रामवान्-तदन्तरः खात्मा-प्रत्यगात्मा सर्वान्तर इत्युच्यत इत्यर्थः । अन्यथा १“यः प्राणेन प्राणिति" 'योऽशनायापिपासाघतीत-इति प्रतिवचनभेदानुपपत्तिरिति चेत् (सिद्धान्तः) --- अत्रोत्तरं-नेति । न विद्याभेद इत्यर्थः । उभयत्र परविषयत्वाप्रश्नपतिवचनयोः । तथाहि-२" यत्साक्षादपरोक्षाब्रह्म य आत्मा सन्तिरः" इति प्रश्नस्तावत्परमात्मविषय एव, ब्रह्मशब्दस्य परमात्मासाधारणत्वेऽपि प्रत्यगात्मन्यपि कदाचिदुपचरितप्रयोगदर्शनासब्यावृत्त्या परमात्मप्रतिपत्त्यर्थ “यत्साक्षाब्रह्म"इति विशेषणं क्रियते । अपरोक्षत्वमपि सर्वदेशसर्वकालसम्बन्धित्वं २" सत्यं ज्ञानमनन्तं ब्रह्म" इत्यनन्तत्वेनावगतस्य परमात्मन एवोपपद्यते। सर्वान्तरत्वमपि ३" यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः" इत्यारभ्य ४“य आत्मनि तिष्ठनात्मनोऽन्तरः" इति सर्वान्तर्यामिणः परमात्मन एव सम्भवति । प्रति वच नमपि तथैव परमात्मविषयम् । १“यः प्राणेन प्राणिति" इति निरुपाधिकं प्राणनस्य कर्तृत्वं परमात्मन एव, प्रत्यगात्मनस्सुषुप्तौ प्राणनम्मति कर्तृत्वाभावात् । एवमजानतोषस्तन प्राणने कर्तृत्वमात्रमुक्तं मन्वानेन प्रत्यगात्मनोऽपि साधारणत्वं प्रतिवचनस्य मत्वा अतुष्टेन पुनः पृष्टस्तं प्रति प्रत्यगात्मनो व्यावृत्तं निरुपाधिकत्वेन प्राणनस्य कोरं परमात्मा १... ५-४-१ ।।-२. ते. आन. १.१॥ ३. वृ. ५-७.३ ॥--४. १.५. ७-२२. मा. पा: For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy