SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (श्रीशारीरकमीमांसाभाष्ये अन्तरत्वाधिकरणम् ॥ १५ ॥ ०० अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् । ३ । ३ । ३५ ॥ बृहदारण्यके उपस्तप्रश्न एवमाम्नायते १" यत्साक्षादपरोक्षाह्रह्म य आत्मा सर्वान्तरः तन्मे व्याचक्ष्व " इति । तस्य प्रतिवचनं २" यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा" इत्यादि । अनुष्टेन तेन पुनः पृष्ट आह २" न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेश्रोतारं शृणुयाः न मतेर्मन्तारं मन्वीथाः न विज्ञातेर्विज्ञातारं विजानीया एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तम्” इति । तथा तदनन्तरं कहोलप्रश्ने चैवमाम्नायेत ३" यदेव साक्षादपरोक्षाद्रह्म य आत्मा सर्वान्तरः तन्मे व्याचक्ष्व " इति । प्रतिवचनं च ३" योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति एवं हैतमात्मानं विदित्वा ब्राह्मणः पुत्रेषणायाश्च वितेषणायाश्च" इत्यादि “ अतोऽन्यदार्तम्" इत्यन्तम् । तत्र संशय्यतेकिमनयोर्विद्याभेदोऽस्ति, नेति । किं युक्तम् ? भेद इति ; कुतः ? रूपभेदात् । प्रतिवचनभेदाद्रपं भिद्यते । प्रश्नस्यैकरूप्येऽपि प्रतिवचनप्रकारो हि भेदेनोपलभ्यते । पूर्वत्र प्राणनादीनां कर्ता सर्वान्तरात्मत्वेनाच्यते ; परत्नाशनायापिपासादिरहितः । अतः पूर्वत्र प्राणिता देहेन्द्रियबुद्धिमन:प्राणव्यतिरिक्तः प्रत्यगात्मोच्यतेः परत्र तु तदरिक्तोऽशनायापिपासादिरहितः परमात्मा । अतो रूपं भिद्यते । भूतग्रामवतश्च प्रत्यगात्मनस्तस्य भूतग्रामस्य सर्वस्यान्तरत्वेन सर्वान्तरत्वमप्युपपन्नम् । यद्यपि प्रत्यगात्मनः सर्वान्तरत्वं भूतग्राममावापेक्षत्वेनापेक्षिकम्, तथापि तदेव ग्राह्यम्, १.बृ.५-४-१॥२, बृ. ५-४-२ ॥ - ३. बृ. ५-५- १॥ - ४. सर्वस्यान्तरात्मत्वेन सर्वान्तरत्व. पा || For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy