________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
वेदान्तदीपे
[म. ३. वेदान्तदीपे-अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ बृहदारण्यके १"एतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वहस्खम्" इत्यादि श्रूयते। तथा आथर्वणे च २“अथ परा यया तदक्षरमधिगम्यते यत्सदद्रेश्यमग्राह्यम्" इत्यादि । किमेषामस्थूलत्वादीनां सर्वासु ब्रह्मविद्यासुपसंहारः, उत यत्र श्रुताः तत्रैवेति संशयः। विद्याविशेषरूपतया श्रुतानां सर्वविद्यासाधारणत्वाभावाद्यत्र श्रुतास्तत्रैव नियता इति पूर्वः पक्षः। राद्धान्तस्तु-अस्थूलत्वादीनामप्यानन्दादिवब्रह्मवरूपानुसन्धानान्तर्भावात्सर्वत्रैवोपसंहारः, न केवलमानन्दादिब्रह्मस्वरूपं प्रत्यगात्मनो व्यावृत्तम् ,तस्यापि हि तदेव स्वरूपम् । अस्थूलत्वादिविशेषितमानन्दादि ब्रह्मणःप्रत्यगात्मनो व्यावृत्ताकारः । यद्यपि प्रत्यगात्मा स्वभावतः स्थूलत्वाद्यचेतनधर्मासम्बन्धी; त. थापि तत्सम्बन्धातास्त्येव । तदर्हतयापि हि पूर्व तत्सम्बन्धस्सातः । अतो ब्रह्मणस्तदनहस्वरूपानुसन्धानार्थतयाऽस्थूलत्वादयस्सर्वत्रानुसन्धेया:सूत्रार्थस्तु-अक्षरधियाम्-अक्षरसम्बन्धिनीनामस्थूलत्वादिधियां सर्वविद्यास्ववरोधः --सङ्ग्रहणम् ; कुतः ? सामान्यतद्भावाभ्यां-ब्रह्मणस्सर्वत्र समानत्वात् ब्रमानुसन्धानान्तर्भावाच तासाम् । गुणानां प्रधानानुवर्तित्वं स्वभावः; औ. पसदवत्-यथा जामदग्न्यचतूरात्रपुरोडाश्युपसद्गुणभूतः 'अग्निहोत्रं वेतु' इति मन्त्रः, सामवेदपठितत्वेन सामवेदस्वरनियतोऽपि प्रधानभूतोपसदनुवर्तित्वात् बाजुर्वेदिकत्वाञ्चोपसदो याजुर्वैदिकोपांशुत्वसम्बन्धी; तद्वदक्षरविद्यासम्बन्धि तयाऽधीतत्वेन तद्विद्यानियता अपि प्रधानानुवर्तित्ववाभाव्यात्सर्वविद्यास. म्बन्धिनः। तदुक्तं प्रथमकाण्डे ३"गुणमुख्यव्यतिक्रमे तदर्थत्वात्" इत्यादिना ॥
एवं तर्हि ४ 'सर्वकर्मा सर्वगन्धः' इत्यादीनामपि सर्वेषां ब्रह्मगुणत्वान्न कचिद्यवस्थेत्यत्राह
इयदामननात् ।। इयत्-अस्थूलत्वादिविशेषितमानन्दायेव सर्वत्रानुस. न्धेयम्; कुतः ? आमननाद्धेतोः । आमननम्-आभिमुख्येन मननं ब्रह्मानुसन्धा. नम् । ब्रह्मस्वरूपानुसन्धानं येन विना नोपपद्यते ; तदेव सर्वत्रानुसन्धेयम् । अन्यत्तु तत्रतत्र व्यवस्थितमित्यर्थः ॥ ३४॥
इति वेदान्तदीपे अक्षरध्यधिकरणम् ॥ १४ ॥
१. . ५-८-८ ॥
२. मु. १-१-५॥-३. पूर्वमीमांसासू ॥-४. छा. ३-१४-४ ॥
For Private And Personal Use Only