________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३) अक्षरम्यधिकरणम्.
३०७ धानानुवर्तित्वात् १" सर्वकर्मा सर्वगन्धस्सर्वरसः" इत्यादेणजातस्य मतिविधं व्यवस्थितस्याप्यव्यवस्था स्यात् । तत्राह
इयदामननात् । ३।३।३४॥ ___ आमननम्-आभिमुख्येन मननम्-अनुचिन्तनम् । आमननाद्धेतोरियदेव गुणजातं सर्वत्रानुसन्धेयत्वेन प्राप्तम् । यदस्थूलत्वादिविशेषितमानन्दादिकम् । येन गुणजातेन विना ब्रह्मखरूपस्येतरव्यावृत्तस्यानुसन्धानं न सम्भवति तदेव सर्वत्रानुवर्तनीयम्। तचेयदेवेत्यर्थः । इतरे तु सर्वकर्मत्वादयः प्रधानानुवर्तिनोऽपि चिन्तनीयत्वेन प्रतिविधं व्यवस्थिताः॥३४॥
इति श्रीशारीरकमीमांसाभाष्ये अक्षरध्यधिकरणम् ॥ १४ ॥
वेदान्तसारे-अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ २"एतद्वै तदक्षरम्" ३ 'अथ परा यया तदक्षरम्" इत्यारभ्य २"अस्थूलमनण्वहखमदीर्घमलोहितं" ३ 'यत्तदद्रेश्यमग्राह्यम्" इत्याद्यस्थूलस्वाद्रेश्यत्वादिविषयाणामक्षरब्रह्मसम्बन्धिनीनां धियां सर्वासु परविद्यासु सङ्गहा, गुणिनो ब्रह्मणः सर्वत्रैकत्वात् , एतैर्गुणैर्विना सकलेतरव्यावृत्तब्रह्मानुस. न्धनानुपपत्तेश्च । हेयसम्बन्धाननिन्दादयोऽपि प्रत्यगात्मनो ब्रह्मव्यावर्तकाः। प्रधानानुवर्तित्वं हि गुणखभावः; यथा जामदग्न्यचतूरात्रपुरोडाश्युपसद्गुणभूतमन्त्रस्य प्रधानभूतोपसदनुवर्तित्वेनोपांशुगुणकत्वम् । तदुक्तं ४"गुणमुस्यव्यतिक्रम" इत्यादिना ॥ ३३ ॥
नैतावता सर्वत्र सर्वोपसंहारव्याप्तिरिस्याह
इयदामननात् ॥ आमननम्-भाभिमुख्येन मननम् । इयदेव गुणजातं सर्वत्रोपसंहार्यम्, येन गुणजातेन सकलेतरव्यावृत्तब्रह्ममननम् ॥३४॥
इति वेदान्तसारे अक्षरध्यधिकरणम् ॥ १४ ॥
१. छा. ३-१४-४॥-२.कृ. ५-८-८ ॥
३. मु. १.१-५॥---४, पूर्वमीमांसा ॥
For Private And Personal Use Only