________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६ श्रीशारीरकमीमांसामाग्वे
[भ. ३. यत्र श्रूयन्ते तत्रैव-इति । किं युक्तम्यन श्रुतास्तत्रैवेति। कुतः विद्यान्तरस्य रूपभूतानां गुणानां विद्यान्तरस्य रूपत्वे प्रमाणाभावात् , प्रतिषेधरूपाणामेषामानन्दादिवत्स्वरूपावगमोपायत्वाभावाच । आनन्दादिभिरवगतस्वरूपे हि ब्रह्मणि स्थूलत्वादयः प्रपञ्चधर्माः प्रतिषिध्यन्ते, निरालम्बनप्रतिषेधायोगात् ॥
___ --(सिद्धान्तः)...एवं प्राप्त प्रचक्ष्महे-अक्षरधियां त्ववरोधः-इति।अक्षरब्रह्मसम्बन्धिनामस्थूलत्वादिधियां सर्वब्रह्मविद्याखवरोधः-सङ्ग्रहणमित्यर्थः। कुतः सामान्यतद्भावाभ्यां-सर्वेषूपासनेषूपास्यस्याक्षरस्य ब्रह्मणः समानत्वादस्थलत्वादीनां तत्स्वरूपप्रतीतौ भावाच। एतदुक्तं भवति-असाधारणाकारण ग्रहणं हि वस्तुनो ग्रहणम् । नच केवलमानन्दादि ब्रह्मणोऽसाधारणमाकारमुपस्थापयति, प्रत्यगात्मन्यप्यानन्दादेविद्यमानत्वात् । हेयमत्यनीको ह्यानन्दादिब्रह्मणोऽसाधारणं रूपम् । प्रत्यगात्मनस्तु स्वतो हेयविरहिणोऽपि हेयसम्बन्धयोग्यताऽस्ति ; हेयप्रत्यनीकत्वं च चिदचिदात्मकप्रपञ्चधर्मभूतस्थूलत्वादिविपरीतरूपम् । अतोऽसाधारणाकारेण ब्रह्मानुसन्दधताऽस्थूलत्वादिविशेषितज्ञानानन्दाद्याकारं ब्रह्मानुसन्धेयमिति अ. स्थूलत्वादीनामानन्दादिवब्रह्मस्वरूपप्रतीत्यन्त वात्सर्वासु ब्रह्मविद्यासु तथैव ब्रह्मानुसन्धेयमिति । गुणानां प्रधानानुवर्तित्वे दृष्टान्तमाह-औपसदवत्-इति । यथा जामदग्न्यचतूरात्रपुरोडाश्युपसद्गुणभूतः सामवेदपठितः १“अनिर्वं होतं वेतु" इत्यादिको मन्त्रः प्रधानानुनर्तितया याजुवैदिकेनोपांशुत्वेन प्रयुज्यते । तदुक्तं प्रथमे काण्डे २"गुणमुख्यव्यतिकमे तदर्थत्वान्मुख्येन वेदसंयोगः" इति ॥ ३३ ॥
नन्वेवं सर्वासु ब्रह्मविद्यासु ब्रह्मण एव गुणित्वाद्गणानां च प्र
१
॥
२. पूर्वमीमांसा ॥
For Private And Personal Use Only