SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३. ] अक्षरध्यधिकरणम्. ३०५ पासनेषूपकोसलादिष्यर्चिरादिका गतिराम्नाता । किं तन्निष्ठानामेव तथा ब्रह्म प्राप्तिः, उत सर्वेषां ब्रह्मोपासननिष्ठानामिति संशयः । तनिष्ठानामेवेति पूर्वः प क्षः, इतरेषां तया ब्रह्मप्राप्तौ प्रमाणाभावात् । यतु पञ्चाग्निविद्यायां साधारणं वचनम्, तदप्युपकोसलादिविषयमिति निश्चीयते । अन्यथोपकोसलादिनानानर्थक्यं स्यात् । राद्धान्तस्तु - पञ्चाग्निविद्यायां १ य एवमेतद्विदुः चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति” इति सामान्येन सर्वविषयं गतिश्रवणमुपकोसलादिष्वाम्नानं न बाधितुं क्षमम्, सङ्कोचकं च न भवति, विद्यास्तुत्यर्थतयाऽनुवादे नाप्युपपत्तेः । अतस्सर्वेषां तयैव ब्रह्मप्राप्तिः । सूत्रार्थस्तु-अनियमस्सर्वेषां सर्वेषामविशेषेण तयैव प्राप्तिः । कुतः ? अविरोधरशब्दानुमानाभ्यां - तथासत्येव श्रुतिस्मृतिभ्यामविरोधः । श्रुतिश्च २ " ये चेमेऽरण्ये ' इत्यादिका पञ्चाग्निविद्यायां निदर्शिता; स्मृतिः ३" अग्निर्ज्योतिरहश्शुक्लः" इत्यादिका ॥ ३२ ॥ इति वेदान्तदीपे अनियमाधिकरणम् || १३ || • (श्रीशारीरकमीमांसाभाष्ये अक्षरध्यधिकरणम् ॥ १४ ॥ ) ... अक्षरधियां त्ववरोधस्सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् । ३ । ३ । ३३ ॥ बृहदारण्यके श्रूयते ४ एतद्वै तदक्षरं गार्गि ब्रह्मणा अभिवदन्ति अस्थूलमनण्वहस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कममाणमसुखममात्रमनन्तरम बाह्यं न तदश्नाति किंचन एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधतौ तिष्ठतः" इति । तथा आथर्वणे ५ " अथ परा यया तदक्षरमधिगम्यते यत्तदश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम् " इति। तत्र संशयः - किमिमे अक्षरशब्द निर्दिष्टब्रह्मसम्बन्धितया श्रुताः अस्थूलत्वादयः प्रपञ्चप्रत्यनीकतास्वरूपास्सर्वासु ब्रह्मविद्यास्वनुसन्धेयाः, उत १. बृ. ८-२-१५॥ - २. छा. ५-१०-१ ॥ - ३. गी. ८-२४ ॥ - ४. बृ. ५-८-८ ॥ ५. मु. १-१-५॥ *39 For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy