SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०४ वेदान्तदीपे [म. ३. एवमेतद्विदुर्ये चामी अरण्ये श्रद्धा सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति" इति वाजसनेयके ; १" तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रदा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति"इति छान्दोग्ये; “य इत्थं विदुः" इति पञ्चाग्निविद्यानिष्ठान् “ ये चेमे" इत्यादिना श्रद्धापूर्वकं ब्रह्मोपासीनांचोद्दिश्याचिरादिका गतिरुपदिश्यते, २"सत्यं ज्ञानमनन्तं ब्रह्म" ३ सत्यं त्वेव विजिज्ञासितव्यम्" इति सत्यशब्दस्य ब्रह्मणि प्रसिद्धः । तपश्शन्दस्यापि तेनैकार्थ्यात्सत्यतपश्शब्दाभ्यां ब्रह्मैवाभिधीयते । “श्रद्धापूर्वकं ब्रह्मोपासनं चान्यत्र श्रुतं ३“सत्यं त्वेव विजिज्ञासितव्यम्" इत्युपक्रम्य :"श्रदा त्वेव विजिज्ञासितव्या" इति। स्मृतिरपि ५ "अग्निज्योतिरहश्शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः" इति सर्वेषां ब्रह्मविदामनेनैव मार्गेण गमनमित्याह । एवंजातीयकाः श्रुतिस्मृतयो बयस्सन्ति । एवं सर्वविद्यासाधारणी इयं गतिः प्राप्तैवोपकोसलविद्यादावनूयते ॥ ३२ ॥ इति श्रीशारीरकमीमांसाभाष्ये अनियमाधिकरणम् ॥ १४ ॥ वेदान्तसारे-अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम्॥येषपकोसलादिष्पासनेम्वर्चिरादिगतिरानाता तनिष्टानामेव तया प्राप्तिरिति तश्चिन्तनमपि तेषामेवेति नियमाभावः; अपि तु सर्वोपासननिष्ठानाम्। तथा सस्येवश्रुतिस्मृतिभ्यामविरोधः।श्रुतिस्तावत् पञ्चाग्निविद्यायां ६ “येचामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति"इत्यविशेषेण श्रुता। स्मृतिरपि ५"अग्निज्योतिरहश्शुक्लः" इत्यादिका ॥ ३२॥ इति वेदान्तसारे अनियमाधिकरणम् ॥ १३ ॥ वेदान्तदीपे-अनियमस्सर्वेषामविरोधश्शब्दानुमानाभ्याम्।। येष १. छा. ५-१०-१॥ --२. ते. आन. १-अनु ।। -३. छा. ७-१७. खं ।। - ४. छा. १९-खं ।।-५. गी. ८-२४ ।।-६. पृ. ८-२-१५ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy