________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.]
साम्परायाधिकरणम् गतेरर्थवत्त्वमुभयधाऽन्यथा हि विरोधः ॥ देवयानगतिश्रुतेरर्थवत्त्वमुभयत्र चिन्तायामेव ; अन्यथा देहवियोगकाल एव चिन्तायां तस्मिन्नेव सर्वकर्मक्षयाहेहाभावेन गतिर्नोपपद्यत इति हि गतिश्रुतिविरोधः ॥ २९ ॥
परिहरति
उपपनस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ देहवियोगकाले सर्वकर्मक्षये. ऽपि गतिविधिरुपपन्नः, ब्रह्मोपासीनानामकर्मलभ्यार्थोपलब्धेः१"स खराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति" इत्यादौ । यथा लोके राजानमुपासीनानामितरपुरुषासाधारणसर्वार्थसिद्धिः ॥ ३०॥
यावदधिकारमवस्थितिराधिकारिकाणाम् । पसिष्ठादीनां शानिनामपि देहपातादूर्व फलान्तरानुभवः, प्रारब्धाधिकारहेतुकर्मविनाशाभावात् । यावदधिकारसमाप्ति तद्धेतुकर्मफलानुभवाय तेषां तत्रैव स्थितिः ; नाचिरादि. प्राप्तिः । शानिनामपि प्रारब्धकर्म अनुभवेनैव नश्यतीति वक्ष्यते ॥ ३१ ॥
इति वेदान्तसारे साम्परायाधिकरणम् ॥ १२ ॥
वेदान्तदीपे–साम्पराये तर्तव्याभावात्तथा ह्यन्ये॥ किमिदं सुकूतदुष्कृतयोहानिचिन्तनं देहवियोगकाल एकदेशः क्षीयते, अध्वनि शिष्टमित्युभयत्र कर्तव्यम् , उत देहवियोगकाल एव सर्व क्षीयत इति संशयः । उभयत्र श्रुतेः देवयानेन पथा गमनान्यथानुपपत्त्या चांभयत्रेति पूर्वः पक्षः, २ "अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीर मकृतं कृतात्मा ब्रह्मलोकम्" इति देहवियोगकाले ३"स आगच्छति विरजां नदी...तत्सुकृतदुकृते धूनुते' इत्यध्वन्यपि हानिश्रुतेः; देहवियोगकाले सर्वकर्मक्षये हि देवयानेन गमनसाधनं कर्म न सम्भवति । राद्धान्तस्तु ४ "तस्य तावदेव चिरं यावन विमोक्ष्ये अथ सम्पत्स्ये” इति देहवियोगादूर्व ब्रह्मप्राप्तिव्यतिरेकेणानुभाव्यपुण्यपापफलाभावात् , २" अश्व इव रोमाणि विधूय पापम्" इत्यादिनैका
र्थ्यात् , अध्वन्यानातमपि ३" तत्सुकृतदुष्कृते धूनुते" इति वाक्यं देहवियोगकाले सहमयितव्यमिति देहवियोगकाल एव हानिचिन्तनम्। सर्वकर्मक्षयेऽपि हि विद्यासामर्थ्यादेव देवयानेन पथा गमनं चोपपद्यते । विद्या हि स्वयं सू. श्मशरीरस्यानारम्भिकापि प्रकृतसुखदुःखोपभोगसाधनस्थूल शरीरस्य सर्वकर्म
१. छा. ७-२५.२॥-२.छा. ८.१३-१॥-३. कौषी. १-४॥-४. छा. ६.१४.२॥
For Private And Personal Use Only