________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अ. ३.
३००
वेदान्तसारे भृतीनां साक्षात्कृतपरतत्वानां देहपातादूर्ध्व देहान्तरसङ्गमः, पुत्रजन्मविपत्त्यादिनिमित्तसुखदुःखानुभवश्च दृश्यते इति । अत उत्तरं पठति
यावदधिकारमवस्थितिराधिकारि
काणाम्।३।३।३१॥ नामाभिस्सर्वेषां ज्ञानिनां देहपातसमये सुकृतदुष्कतयोविनाश उक्तः अपितु येषां ज्ञानिनां देहपातानन्तरमर्चिरादिका गतिः प्रासा, तेषां देहपातसमये सुकृतदुष्कृतहानिरुक्ता । वसिष्ठादीनां त्वाधिकारिकाणां न देहपातानन्तरमचिरादिगतिप्राप्तिः, प्रारब्धस्याधिकारस्यासमाप्तत्वात् । तेषां कर्मविशेषेणाधिकारविशेष प्राप्तानां यावदधिकारसमाप्ति तदारम्भकं कर्म न क्षीयते । प्रारब्धस्य हि कर्मणो भोगादेव क्षयः । अत आधिकारिकाणां तदारम्भकं कर्म यावदधिकारमवतिष्ठते । अतस्तेषां न देहपातादनन्तरमर्चिरादिगतिप्राप्तिः ॥३१॥
___ इति श्रीशारीरकमीमांसाभाष्ये साम्परायाधिकरणम् ॥ १२ ॥
वेदान्तसारे-साम्पराये तर्तव्याभावात्तथा धन्ये ॥सकताकतयोहानिः १"अश्व इव रोमाणि विधूय...धूत्वा शरीरम्" इति देहवियोगकाले श्रुताशाखान्तरे २"स आगच्छति विरजां नदी...तत्सुकृतदुष्कृते धूनुते"इत्यध्वन्यपि श्रुताऽपि साम्पराये चरमदेहवियोगकाल एव चिन्तनीया, देहवियो गादूर्ध्व ब्रह्मप्राप्तिव्यतिरेकेण तरितव्यभोगाभावात् । तथाह्यन्ये शान्निनः ३ "त. स्य तावदेव चिरं यावन विमोश्येऽथ संपत्स्ये" इति देहवियोगसमनन्तरं ब्रह्मप्राप्तिमधीयते ॥ २७ ॥
छन्दत उभयाविरोधात् ॥ देहवियोगकाले पुण्यपापविमोचनश्रुतेः, देहवियोगादूर्ध्व ब्रह्मप्राप्तिश्रुतेश्वेत्युभयश्रुत्यविरोधाद्धेतोः 'सुकृतदुष्कृते धनुते" इत्ययं श्रुतिखण्डः छन्दतो नेतव्यः ४"एतं देवयानं पन्थानमापद्यते" इति वा. क्यखण्डात् प्रागनुगमयितव्य इत्यर्थः ॥ २८ ॥
चोदयति
१. छा. ८-१३-१ ॥ २. कौषी. १.४॥ --३. छा. ६-१४-२ ॥ - ४. कौषी. १-अ. ३ ॥
For Private And Personal Use Only