SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] साम्परायाधिकरणम् . २९९ सुकृतदुष्कृतयोरेकदेशस्य देहवियोगकाले हानि:, शेषस्य च पथादिति उभयधा कर्मक्षये सत्येव गतेरर्थवत्त्वम्-देवयानगतिश्रुतेरर्थवत्त्वमित्यर्थः । अन्यथा हि विरोधः-देहवियोगकाल एव सर्वकर्मक्षये सूक्ष्मशरीरस्यापि विनाशस्स्यात् । तथा सति केवलस्यात्मनो गमनं नोपपद्यते । अत उत्कान्तिसमये विदुषो निश्शेषकर्मक्षयो नोपपन्नः ॥२९॥ अनोत्तरम्उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत्।३।३।३०॥ उपपन्न एवोत्क्रान्तिकाले सर्वकर्मक्षयः; कथम् ? तल्लक्षणार्थोपलधेः-क्षीणकर्मणोऽप्याविर्भूतस्वरूपस्य देहसम्बन्धलक्षणार्थोपलब्धे।"परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते" "स तत्र पर्येति जक्षस्क्रीडव्रममाणः" २"स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति" ३“स एकधा भवति त्रिधा भवति" इत्यादिषु देहसम्बन्धाख्योऽर्थो झुपलभ्यते । अतः क्षीणकर्माणोऽपि सूक्ष्मशरीरयुक्तस्य देवयानेन गमनमुपपद्यते । कथं सूक्ष्मक्षशरीरमप्यारम्भककर्मविनाशेऽवतिठत इति चेत्-विद्यामाहात्म्यादिति ब्रूमः । विद्या हि स्वयं सूक्ष्मशरीरस्यानारम्भिकापि प्राकृतमुखदुःखोपभोगसाधनस्थूलशरीरस्य सर्वकर्मणां च निरवशेषक्षयेऽपि स्वफलभूतब्रह्मप्राप्तिप्रदानाय देवयानेन पथैनं गमयितुं सूक्ष्मशरीरं स्थापयति ; लोकवत्-यथा लोके सस्यादिसमृद्ध्यर्थमारब्धे तटाकादिके तहेतुषु तदिच्छादिषु विनष्टेष्वपि तदेव तटाकादिकमशिथिलं कुर्वन्तस्तत्र पानीयपानादि कुर्वन्ति ; तद्वत् ॥३०॥ अथ स्यात्-ज्ञानिनां साक्षात्कृतपरतत्त्वानां देहपातसमये कर्मणो निरवशेषक्षयादेहपाताज़ सूक्ष्मशरीरमात्रं गत्यर्थमनुवर्तते, सुखदुःखानुभवो न विद्यत-इति यदुक्तम् ; तमोपपद्यते ; वसिष्ठापान्तरतपः १. छा, ८-१२-२-३ ॥ २. छा. ७-२५-२ ॥-३. छा. ७-२६-२॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy