________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८ श्रीशारीरकमीमांसाभाष्ये
[म. ३. १" अश्व इव रोमाणि विध्य पापं चन्द्र इव राहोर्मुखात्प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि " इति । अत्र तु देहवियोगकाल इति प्रतीयते ; शाट्यायनकेऽपि २"तस्य पुत्रा दायमुपयन्ति मुहदस्साधुकृत्यां द्विषन्तः पापकृत्याम्" इति पुत्रेषु दायसङ्क्रान्तिसमकालं मुहतदुष्कृतसङ्क्रमणं श्रूयमाणं देहवियोगकाल इति गम्यते । अतस्सुकृतदुष्कृतयोरेकदेशो देहवियोगकाले हीयते ; शेषस्त्वध्वनि
इति प्राप्त उच्यते-साम्पराये-इति । साम्पराये-देहादपक्रमणकाले एव विदुषस्सुकृतदुष्कृते निरवशेषं हीयते । कुतः १ तर्तव्याभावात्-विदुषो देहवियोगात्पश्चात्सुकृतदुष्कृताभ्यां तरितव्यभोगाभावात्। विद्याफलभूतब्रह्मप्राप्तिव्यतिरेकेण हि सुकृतदुष्कृताभ्यां भोक्तव्ये सुखदुःखे न विद्यते। तथा वन्ये देहवियोगादूर्ध्व ब्रह्ममाप्तिव्यतिरिक्तसुखदुःखोपभोगाभावमधीयते ३"अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः"३"एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते" "तस्य तावदेव चिरं यावन विमोक्ष्येऽथ सम्पत्स्ये" इति ॥२७॥ छन्दत उभयाविरोधात् । ३।३।२८॥
एवमर्थखाभाव्यात्सुकृतदुष्कृतहानिकालेऽवधृते सत्युभयाविरोधेन-श्रुतेरथस्वभावस्य चाविरोधेन छन्दतः-यथेष्टं पदानामन्वयो वर्णनीयः। कौषीतकीवाक्ये ५"तत्सुकृतदुष्कृते धृनुते" इति चरमश्रुतो वाक्यावयवः ५"एतं देवयानं पन्थानमापद्य" इति प्रथमश्रुतावयवात्मागनुगमयितव्य इत्यर्थः ॥ २८ ॥
अत्र पूर्वपक्षी प्रत्यवतिष्ठतेगतेरर्थवत्त्वमुभयधाऽन्यथा हि विरोधः।३।३।२९॥
१. छा. ८-१-१३ ॥---२. ६.१४.२॥-५. कौषी. १-अ. ४,३॥
॥-३. छा. ८-१२-१,२ ॥--४. छा.
For Private And Personal Use Only