________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] साम्परायाधिकरणम् .
२९७ र्थम् ; केवलविमोचने केवले चोपायने श्रूयमाणे तयोरितरेतरसमुच्चयोऽवश्यम्भावी; कुतः! उपायनशब्दशेषत्वात्-उपायनशब्दस्य हानिवाक्यशेषत्वादित्यर्थः । त्यक्तयोःपुण्यपापयोः प्रवेशस्थानवाचित्वादुपायनवाक्यस्य हानिवाक्यशेषत्वमवगम्यते । प्रदेशान्तरानातवाक्यस्य प्रदेशान्तरानातवाक्यशेषत्वे दृष्टान्तानाह-कुशाच्छन्दस्स्तुत्युपगानवत्-इतिायथा १"वानस्पत्याः कुशाः" इति प्रदेशान्तरानातस्य वाक्यस्य २"औदुम्बर्यः कुशाः" इति तद्विशेषवाचिप्रदेशान्तरस्थम् ; यथा च ३"देवासुराणां छन्दोभिः" इति सामान्यतः प्रदेशान्तरासातस्य ४"देवच्छन्दांसि पूर्वम्" इति तत्क्रमविशेषवाचि प्रदेशान्तरसम्; य. था च ५"हिरण्येन षोडशिनस्स्तोत्रमुपाकरोति" इति प्रदेशान्तरस्थस्य तत्कालविशेषवाचि ६ "समयाविषिते सूर्य षोडशिनस्तोत्रमुपाकरोति" इति प्रदे. शान्तरस्थम् ; यथा च ७'ऋत्विज उपगायन्ति" इति प्रदेशान्तरस्थस्य ८"नाध्वर्युरुपगायेत्" इति तत्पर्युदासरूपं प्रदेशान्तरस्थम् ; एवमुपायनवाक्यस्य हानिवाक्यशेषतया सम्भवन्त्यां गतौ न विकल्पो युक्तः; तदुक्तं पूर्वस्मिन् काण्डे ९"अपितु वाक्यशेषस्स्यादन्याय्यत्वाद्विकल्पस्य" इत्यादिना ॥ २६ ॥
इति वेदान्तदीपे हान्यधिकरणम् ॥ ११ ॥
--
(श्रीशारीरकमीमांसाभाष्ये साम्परायाधिकरणम् ॥ १२ ॥)....
साम्पराये तर्तव्याभावात्तथा ह्यन्ये ।३।३।२७॥
सुकृतदुष्कृतयोनिमुपायनं च सर्वासु विद्यासु चिन्तनीयमित्युक्तम्। तद्धानं किं देहवियोगकाले देहादुत्क्रान्तस्याध्वनि च, उत देहवियोगकाल एवेति विशये उभयत्रेति युक्तम् , उभयधा श्रुतत्वात् ; एवं हि कौषीतकिनस्समामनन्तिर ० "स एतं देवयानं पन्थानमापद्याग्निलोकं गच्छति" इत्युपक्रम्य १०"स आगच्छति विरजां नदीं तां मनसाऽत्येति तत्सुकृतदुष्कृते धूनुते" इति । अत्र वाक्ये अध्वनि सुकृतदुष्कृतहानिःप्रतीयते । ताण्डिनस्तु
-
॥-६. यजु-६ कां-६. प्र. ११-अनु ॥-७. ८. ६-कां. ३-प्र. ६-१॥-९.
॥-१०. कौषी. १-३-४ ॥ *38
For Private And Personal Use Only