SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९६ वेदान्तदीपे [म. ३. ; बुपायनेचेत्यर्थः हानिः विमोचनम्; उपायनं प्रवेशनम् केवलहानावानाताबां केवले चोपायने आनाते इतरेतरसमुच्चयो न्याय्यः, न विकल्पः, उपायनशब्दस्य हानिवाक्यशेषत्वात् ; तच्छेषत्वश्च त्यक्तयोः प्रवेशस्थानवाचित्वेन तदपेक्षत्वात् । यथा १'' वानस्पत्याः कुशाः" इत्येतद्वाक्यशेषभूतम् २ "औदुम्बर्यः कुशाः" इति प्रदेशान्तरस्थम् ; यथाच ३" देवासुराणां छन्दोभिः" इत्येतद्वाक्यशेषभूतं ४' देवच्छन्दांसि पूर्वम्' इति प्रदेशान्तरस्थम् ; यथा च ५ " हिरण्येन षोडशिनस्तोत्रमुपाकरोति" इत्येतद्वाक्यशेषभूतं ६ "समया विषिते सूर्ये षोडशिनस्तोत्रम् ; इति; यथा च ७" ऋत्विज उपगायन्ति” इत्येतच्छेभूतं ८" नाध्वर्युरुपगायेत्" इति । एवमुपायनवाक्यस्य हानिवाक्यशेषतया सम्भवस्थां गतौ न विकल्पो न्याय्यः । तदुक्तम् ९ " अपि तु वाक्यशेषस्स्यादन्याय्यत्वाद्विकल्पस्य" इत्यादिना ॥ २६ ॥ इति वेदान्तसारे हान्यधिकरणम् ॥ ११ ॥ ; वेदान्तदीपे — हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् ॥ विदुषो ब्रह्म प्राप्नुवतः पुण्यपापयोर्विमोचनं द्वयोश्शाखयोश्रुतम् ; विमुक्तयोः पुण्यपापयोरन्यत्र प्रवेश एकस्यां शाखायां श्रुतः ; विमोचनं प्रवेशश्वोभयमेकस्याम् १०'' तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति " ११ 'अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि " इति च केवलविमोचनम् १२" तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां द्विषन्तः पापकृत्यां" इति केवलप्रवेशः : १३ " तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयस्सुकृतमुपयन्ति अप्रिया दुष्कृतम्” इत्युभयम्; किं केवलहानिचिन्तनं केवलोपायनचिन्तनमुभयचिन्तनं च सर्वासु विद्यासु विकल्पेनानुष्ठेयम्, उत समुच्चयेनेति संशयः । तथातथाऽऽम्नातस्यार्थवत्त्वाय विकल्प इति पूर्वः पक्षः । राद्धान्तस्तु - पुण्यपा पप्रवेशस्य विमोचनापेक्षत्वेन शाखान्तरस्थस्यापि प्रवेशवाक्यस्य शाखान्तरस्थविमोचनवाक्यशेषत्वात् वाक्यद्वयेनैकार्थविधानात्समुच्चयः एकस्यां शाखायामुभयविधानं प्रतिपतृभेदेन परिहियते ॥ FDD सूत्रार्थस्तु हानौ त्विति तु शब्दः पक्षव्यावृत्त्यर्थः; हानाविति प्रदर्शना१॥―२॥१॥ ४ ॥ ५ ॥ ६. यजु. ६ - कां. ६ प्र. ११- अनु ॥ ७ ॥ —८. यजु. ६-कां. ३ - प्र. १- अनु. ६ - पं ॥ ९ ॥ - १०. मु. ३-१-३ ॥ - ११. छा. ८-१३-१ ॥— १२ ॥ १३. कौषी. १ अ. ४ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy