________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२ वेदान्तदीपे
(म.. णांच निरवशेषक्षयेऽपि खफलभूतब्रह्मप्राप्तिप्रतिपादनाय देवयानेन पथैनं गमयितुं सूक्ष्मशरीरं स्थापयति॥
सूत्रार्थस्तु-साम्पराये-देहवियोगकाल एव चिन्तनीयम्; कुतः ततन्याभावात्-देहवियोगादृर्व ब्रह्मप्राप्तिव्यतिरेकेण तरितव्यभोगाभावात् । तथाअन्येऽधीयते-१" तस्य तावदेव चिरं यावत्र विमोक्ष्ये अथ सम्पत्स्ये" इति ; २" अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः" इति च ॥ २७ ॥
छन्दत उभयाविरोधात्॥ एवमर्थस्वाभाब्याहेहवियोगकाल एव निरवशेषकर्मक्षयेऽवधृते सति ३" तत्सुकृतदुष्कृते धूनुते" इति वाक्यखण्डः उभयाविरोधात्-उभयश्रुत्यविरोधाच्छन्दतो नेयः, ४' 'अश्व इव रोमाणि विधूय पापं धूत्वा शरीरमकृतम्" १" तस्य तावदेव चिरम्" इत्युभयश्रुस्यविरोधापरमश्रुतोऽपि ३"तत्सुकृतदुष्कृते धूनुते" इति वाक्यखण्डः ३" पतं देवयानं पन्थानमापद्यते" इति प्रथमश्रुतखण्डात् प्रागनुगमवितव्य इत्यर्थः ॥ २८॥
अत्र चोदयति
गतेरर्थवत्त्वमुभयधाऽन्यथा हि विरोधः॥ देवयानेन गतिश्रुतेरर्थवत्वं देहवियोगकालेऽध्वनि चेत्युभयधा कर्मक्षये सत्येव ; अन्यथा देहवियोगकाले एव सर्वकर्मक्षये सति सूक्ष्मशरीरस्याप्यारम्भकनाशेन स्थित्यनुपपत्तेः देवयानगतिश्रुतिर्हि विरुध्यते ॥ २९ ॥
परिहरति
उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ।। भगवन्तमुपासीनानां देहवि. योगकाले सर्वकर्मक्षयेऽप्युपपन्नो देवयानः पन्थाः। कुतः? तल्लक्षणार्थोपलब्धेः -तल्लक्षणार्थः-तजातीयार्थः, अकर्मलभ्यार्थोपलम्धेरित्यर्थः । उपलभ्यते एकमलभ्यार्थों ब्रह्मोपासीनानां ५“स स्वराइभवति तस्य सर्वेषु लोकेषु कामचारो भवति" इत्यादिषु । लोकवत्-यथा लोके राजानमुपासीनानां प्रा. कृतपुरुषासाधारणातिरमणीयानेकार्थसिद्धिः ; तद्वत् सर्वशं सत्यसङ्कल्पं महोदारं परं ब्रह्मोपासीनानां सर्वमुपपन्नमित्यर्थः ॥ ३० ॥
परं ब्रह्मोपासीनानां देहपातसमये सर्वकर्मक्षयात् देहपातादूर्व कर्मफलानुभवो न विद्यत इत्येतन सम्भवति, वसिष्ठादीनां ज्ञानिनामपि कर्मफलक
१. छा. ६-१४.२ ॥-२. छा. ८-१२-१ ॥-३. कौषी. १-अ. ४-३ ॥-४. छा. ८-१३ ।।-५-छा. ७-२५-२ ॥
For Private And Personal Use Only