________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.]
वेधाद्यधिकरणम्.
२९१
न्दोग्ये चाशिशिषादीनां दीक्षात्वकल्पनं त्रेधा विभक्तपुरुषायुषस्य च सवनत्रयकल्पनम् ; १" शतं जीवति" इति च फलम् ॥ २४ ॥ इति वेदान्तसारे पुरुष विद्याधिकरणम् ॥ ९ ॥
-
वेदान्तदीपे - पुरुषविद्यायामपि चेतरेषामनाम्न्नानात्। तैत्तिरीयके पुरुषविद्याऽऽन्नाता २" तस्यैवं विदुषो यज्ञस्याऽत्मा यजमानश्श्रद्धा पत्नी शरीरम्" इत्यादिका | छान्दोग्येऽपि ३ " पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि " इत्यादिका । किमत्र विद्याभेदः उत नेति संशयः । पुरुषविद्येति संवैक्यात्, तैत्तिरीयके फलसम्बन्धानाम्नानात्, छान्दोग्ये १" शतं जीवति" इत्यनेनैकफलत्वाच्च विद्यैक्यमिति पूर्वः पक्षः । राद्धान्तस्तु – पुरुषविद्येति संशैक्येऽपि सवनत्रयकल्पनाप्रकारभेदाद्यजमानपत्न्यादि कल्पनाप्रकारभेदाश्च रूपभेदात्, तैत्तिरीयके- पूर्वानुवाकगतस्य २ "ब्रह्मणो महिमानमामोति" इति प्रह्मविद्याफलस्यैव सन्निधानात् अफलस्यास्य तदङ्गतया तत्फलत्वात् फलभेदाच विद्याभेदः । सूत्रार्थस्तु - पुरुषविद्यायामपि उभयत्र रूपभेदाद्विद्याभेदः, कुतः इतरेषामनाम्नानात् - इतरशाखोदितानां तदितरशाखा यामनाम्नानात् छान्दो म्ये- तैत्तिरीयकाम्नातानां यजमानपत्न्यादीनां सवनानां चानाम्नानात्, तैत्तिरीयके च च्छान्दोग्याम्नातानां यज्ञावयवानामनाम्नानादित्यर्थः । तैत्तिरीयके हि २" आत्मा यजमानश्श्रद्धा पत्नी" इति यजमानादिकल्पनम्, २" यत्सायं प्रातमध्यन्दिनं च तानि सवनानि" इतिच सवनत्रयकल्पनम्, छान्दोग्ये चाशिशिषादीनां दीक्षात्वादि कल्पनम्, पुरुषायुषंत्रेधा विभज्य सवनत्रयकल्पनं चेति यशावयव कल्पनप्रकारभेदाद्रूपभेदः स्पष्टः । फलमपि तथैवेति इतरेषामिति फ लस्यापि ग्रहणम् ॥ २४ ॥
इति वेदान्तदीपे पुरुषविद्याधिकरणम् ॥ ९ ॥
(श्रीशारीरकमीमांसाभाष्ये वेधाद्यधिकरणम् ॥ १० ॥ ००
वेधाद्यर्थभेदात् । ३ । ३ । २५॥ आथर्वणिका उपनिषदारम्भे ४ " शुक्रं प्रविध्य हृदयं प्रविध्य" इत्या
१. छा. ३-१६-७ ॥—२. तै. नारा, ५२ - अनु ॥ ३. छा. ३०१६-१ ॥४॥
For Private And Personal Use Only