________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९० वेदान्तसारे
[म.३. ति" इति च्छान्दोग्ये श्रुतस्यैव पुरुषविद्याफलत्वात्फलसंयोगस्याप्यविशेपाद्विधैक्यम् ॥
--(सिद्धान्तः.)...-. इति प्राप्त उच्यते-उभयत्नानातयोर्विघयोः पुरुषविद्यात्वेऽपि विद्याभेदोऽस्त्येव ; कुतः ? इतरेषामनाम्नानात्-एकस्यां शाखायामानातानां गुणानामन्यत्रानाम्नानात् । तथा हि १“यत्सायं प्रातमध्यन्दिनं च तानि सवनानि" इत्यादयस्तैत्तिरीयके आम्नाताः छान्दोग्ये सवनस्वेन नाम्नायन्ते । त्रेधा विभक्तं पुरुषायुषं छान्दोग्ये सवनत्वेन कल्प्यते छान्दोग्ये श्रुतानामशिशिषादीनां दीक्षादित्वकल्पनं तैत्तिरीयके न कृतम् ; यजमानपत्न्यादिपरिकल्पनं चान्यथा । अतो रूपमुभयन भिधते । तथा फलसंयोगोऽपि भियते तैत्तिरीयके हि पूर्वानुवाके २"ब्रह्मणे त्वामहस ओमित्यात्मानं युञ्जीत" इति ब्रह्मविद्यामभिधाय तत्फल. खेन २"ब्रह्मणो महिमानमामोति" इत्युक्त्वा १ "तस्यैवं विदुषः" इत्यादिना आनाता पुरुषविद्याऽस्यैव ब्रह्मविदुषो यज्ञत्वकल्पनमिति गम्यते।। _अतो ब्रह्मविद्यागत्वाद्ब्रह्मप्राप्तिरेवान फलम् ; ३“फलवत्सनिधावफलं तदङ्गम्" इति न्यायातैत्तिरीयकानाता पुरुषविद्या ब्रह्मविद्यामिति गम्यते । छान्दोग्ये त्वायुःप्राप्तिफला पुरुषविद्येत्युक्तम् । अतो रूपसंयोगयोर्भदाद्विद्याभेद इत्येकनानातानां गुणानामितरत्रानुपसंहारः॥२४॥
इति श्रीशारीरकमीमांसाभाष्ये पुरुषविद्याधिकरणम् ॥ ९ ॥
वेदान्तसारे--पुरुषविद्यायामपि चेतरेषामनानानात् ।। छान्दोग्ये तैत्तिरीयके चाम्नाता पुरुषविद्या भिन्ना, यजमानपन्यादीनां यज्ञावयवानामितरेषां सवनत्रयादीनां चैकत्रानातानामन्यत्रानाम्नानात्, फलभेदाच । तैत्तिरीयके आत्मादीनां यजमानत्वकल्पनं सायंप्रातमध्यन्दिनानां सवनत्वकल्पनं ब्रह्ममहिमप्राप्तिफलम् । अत्र फलस्याश्रवणात् पूर्वप्रस्तुतफलं ब्रह्मविद्याङ्गम् । छा
१. ते. नारायणं. ५२-अनु॥--२. ते. नारायणं ५१-अनु ॥-३. पूर्वमीमांसा न्यायः॥
For Private And Personal Use Only