________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३.]
पुरुषविद्याधिकरणम्.
२८९
वेदान्तदीपे सम्भृतिव्याप्तयपि चातः । तैत्तिरीयके नारायणीयानां त्रिलेषु च १ " ब्रह्म ज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान ब्रह्मभूतान प्रथमोत जशे तेनाईति ब्रह्मणा स्पर्धितुं कः" इति ब्रह्मणि ज्येष्ठानां गुणानां सम्भृतिर्युव्याप्तिश्चेत्यादिगुणजातमानातम्। किमेषां सर्वासु विद्यासुपसंहारः, उतस्थानविशेषोपासनेषु नियम इति संशयः । अनारभ्याधीतत्वादेषां सर्वासूपसंहारः -- इति पूर्वः पक्षः । राद्धान्तस्तु यद्यपि न स्थानविशेष सम्बन्ध्युपासनमारभ्याधीता एते; तथापि व्याप्तिसामर्थ्यात्तस्य हृदयाद्यल्पस्थानेषूपसंहारायोगात् तत्साहचर्याश्चेतरेषामल्पस्थानविहितासु विद्यासु नोपसंहारः इति । सूत्रार्थस्तु- सम्भृतिद्युव्याप्तीति - समाहार २ द्वन्द्वैकवद्भावः । सम्भृतिप्रभृतिगुणजातमप्यत एव स्थानविशेष सम्बन्ध नियमान्नियतम् ; न सर्वत्रोपसंहार्यम् । धुव्याप्तिर्हि स्वसामर्थ्यादल्पस्थानानर्हतया तदितरस्थाननियता । सम्भृत्याद्यपि तत्साहचर्यात्तथैव ॥ २३ ॥
इति वेदान्तदीपे सम्भृत्यधिकरणम् ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
( श्रीशारीरकमीमांसाभाष्ये पुरुषविद्याधिकरणम् ॥ ९ ॥ ) ---
पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥ ३३॥२४॥
तैत्तिरीयके पुरुषविद्याऽऽन्नायते “ तस्यैवंविदुषो यज्ञस्यात्मा यजमानश्श्रद्धा पत्नी शरीरमिध्ममुरो वेदर्लोमानि बर्हिः" इत्यादिका । छान्दोग्येऽपि पुरुषविद्याssस्नायते ४" पुरुषो वाव यज्ञस्तस्य यानि चतुविंशतिवर्षाणि " इत्यादिका । तत्र संशयः किमल विद्या भिद्यते, उत नेति । पुरुषविद्येति नामैक्यात्पुरुषावयवेषु यज्ञावयवकल्पनसाम्येन रूपैक्यात् तैत्तिरीयके फलसंयोगाश्रवणात् ५ “प्र ह षोडशं वर्षशतं जीव
•
१. यजु. २. अष्ट. ४ प्रश्न. ७ अनु ॥ २. इन्देनैकवद्भावः पा ॥ ३. तै. नारायणं. ५२ अनु ॥ - ४. छा. ३-१६-२ ॥५. . ३-१६-७ ॥
37
For Private And Personal Use Only