________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૮૮
वेदान्तसारे
[म. ३. तैत्तिरीयके नारायणीयानां खिलेषु च १"ब्रह्म ज्येष्ठा वीर्या सम्भृतानि ब्रमाग्रे ज्येष्ठं दिवमाततान । ब्रह्म भूतानां प्रथमोऽत जज्ञे तेनाईति ब्रह्मणा स्पर्धितुं कः" इति ब्रह्मणि ज्येष्ठानां वीर्याणां सम्भृतिः, धुव्याप्तिश्चेत्यादिगुणजातमानातम्। तेषामुपासनविशेषमनारभ्याधीतानां गुणानां सर्वासु विद्यासुपसंहारे प्राप्त उच्यते
--(सिद्धान्तः.)... सम्भृतिाव्याप्त्यपि-इति । सम्भृतिधुव्याप्तीति समाहारद्वन्द्वत्वादेकवद्भावः। सम्भृत्यादिकमनारभ्याधीतमपि अत एव स्थानभेदाद्यवस्थाप्यम् न सर्वत्रोपसंहर्तव्यम् । कथमनारभ्याधीतानां स्थानविशेषनियतत्वम् : स्वसामर्थ्यादिति ब्रूमः । युव्याप्तिस्तावद्धदयाघल्पस्थानगोचरामु विद्यासु नोपसंहर्तुं शक्या; सम्भृत्यादयोऽपि तत्सहचारिणस्तत्तुल्यदेशा इत्यल्पस्थानविषयासु विद्याखनुपसंहार्याः। शाण्डिल्यदहरादिविद्यास्वल्पस्थानविषयासु २ "ज्यायान् पृथिव्याः" ३“यावान्वा अयमाकाजस्तावानेषोऽन्तहृदय आकाशः" इत्यादयस्तत्रतत्राशक्योपसंहाराः मनोमयत्वापहतपाप्मत्वादिविशिष्टस्योपास्यस्य माहात्म्यप्रतिपादनपराः॥
इति श्रीशारीरकमीमांसाभाष्ये सम्भृत्यधिकरणम् ॥ ८ ॥
वेदान्तसारे-सम्भृतिधुव्याप्त्यपि चातः ॥ १"ब्रह्म ज्येष्ठा वीर्या संभृतानि ब्रह्मा ज्येष्ठन्दिवमाततान" इत्यादिज्येष्ठानां वीर्याणां ब्रह्मणि संभृ. तिः धुव्याप्तिश्च ब्रह्मण इत्येतदनारभ्याधीतमपि न सर्वोपासनशेषभूतम् ; अतो धुव्याप्तिसामर्थ्यादल्पस्थानव्यतिरिक्तष्पासनेषु प्राप्नोति । संभृत्याद्यपि धुव्या. तिसहपठितं तत्रैव ॥ २३ ॥
इति वेदान्तसारे सम्भृत्यधिकरणम् ॥ ८॥
१.॥-२.छा. ३-२४-३।।-३. छा. ८-१.३।।
For Private And Personal Use Only