________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] — सम्भृत्यधिकरणम् .
२८७ दर्शयतिच ॥ दर्शयति च श्रुतिर्विद्याभेदम् १"तस्यैतस्य तदेव अपं यदमुख्य रूपम्" इति रूपातिदेशं युवती ॥ २२॥
इति वेदान्तसारे सम्बन्धाधिकरणम् ।। ७ ॥
वेदान्तदीपे-सम्बन्धादेवमन्यत्रापि ॥ बृहदारण्यके-२"य एष एतस्मिन्मण्डले पुरुषो यश्चागं दक्षिणेऽक्षिन्" इत्युपक्रम्य आदित्यमण्डलेऽक्षणि च सत्यस्य ब्रह्मणो व्याहृतिशरीरत्वेनोपास्यत्वमुक्त्वा, ३"तस्योपनिषदहरित्यधिदैवतम्' ३"तस्योपनिषदहमित्यध्यात्मम्" इति द्वे रहस्यनामनी उपासनशेषतयाऽनायेते । ते किं यथाश्रुतस्थाननियते, उतोभयत्रोभे इति संशयः। उभयोस्स्थानयोरेकरूपस्यैवोपास्यत्वाविद्यैक्यमित्यनियते नामनी इति पूर्वपक्षः। अक्ष्यादित्यस्थानसम्बन्धित्वरूपाकारभेदादूपभेद इति विद्याभेदात् वे नामनी नियते इति राद्धान्तः । सूत्रार्थस्तु-यथा मनोमयत्वादिगुणविशिष्टस्यैकस्यैवोपास्यत्वेनोभयत्र विद्यै क्यम् ; एवमन्यत्रास्यादित्याधारस्याप्येकस्यैव सत्यस्य न. ह्मणस्स्थानद्वयसम्बन्धान रूपभेद इति विद्यैक्यात् वे नामनी अनियते ॥२०॥
नवा विशेषात् ॥ नचैतदस्ति-यद्विद्यैक्यादुभयत्रोभे नामनी अनियते इति । कुतः विशेषात् । उभयत्र हि रूपं विशिष्यते, एकत्रादित्यस्थानसम्बन्धि, इतरत्राक्षिस्थानसम्बन्धि ब्रह्मेति रूपभेदाविद्याभेद इति नियते नामनी॥ २१॥
दर्शयति च ॥ दर्शयति च श्रुतिर्विद्याभेदेन गुणानुपसंहारं १"तस्यैतस्य तदेव रूपं यदमुख्य रूपम्" इत्यादिना रूपाद्यतिदेशेन। स्वतो छप्राप्ताव तिदेशेन प्राप्तथपेक्षा ॥ २२॥
इति वेदान्तदीपे सम्बन्धाधिकरणम् ॥ ७॥
--(श्रीशारीरकमीमांसाभाष्ये सम्भृत्यधिकरणम् ॥८॥an
सम्भृतिधुव्याप्त्यपि चातः । ३ । ३ । २३ ॥
१. छा. १-७-५ ।।--२. व. ७-५-१॥-1. बृ. ७-५-२, ३ ॥
For Private And Personal Use Only