________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
वेदान्तसारे
[म.३. ति प्राप्तम् । तदिदमुच्यते-सम्बन्धादेवमन्यनापीति । यथा मनोमयत्वादिगुणविशिष्टस्यैकत्वादुपास्यैक्येन रूपाभेदाद्विवैक्याद्णोपसंहारः। एवमन्यत्राक्ष्यादित्यसम्बन्धिनो ब्रह्मणस्सत्यस्यैकत्वेन विथैक्यादुभयोरुभयनोपसंहारः ॥ २०॥
--(सिद्धान्तः.).. एवं प्राप्ते प्रचक्ष्महे
न वा विशेषात् । ३।३।२१॥
न वैतदस्ति-यद्विवैक्यादुपसंहारः-इति । कुतः ? विशेषात्उपास्यरूपविशेषात् । ब्रह्मण एकत्वेऽप्येकत्रादित्यमण्डलस्थतया उपास्य त्वम् , इतरत्राक्ष्याधारतयोपास्यत्वमिति स्थानसम्बन्धित्वभेदेन रूपभेदादिद्याभेदः। नैवं शाण्डिल्यविद्यायाः उपास्यस्थानं भिद्यते, उभयत्र हृदयाघारत्वेनोपास्यत्वात् । अतो व्यवस्थिते इति ॥ २१ ॥
दर्शयति च । ३।३।२२॥ दर्शयति चाक्ष्याधारादित्याधारयोर्गुणानुपसंहारं १"तस्यैतस्य तदेव रूपं यदमुष्य रूपम्" इत्यादिना रूपाद्यतिदेशेन । खतो यमाप्तावतिदेशेन प्राप्त्यपेक्षा ॥ २२॥
इति श्रीशारीरकमीमांसाभाष्ये सम्बन्धाधिकरणम् ॥ ७ ॥ वेदान्तसारे-सम्बन्धादेवमन्यत्रापि ॥ २ " य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षिन्' इत्युपक्रम्य सत्यस्य ब्रह्मणः आदित्यमण्डले अक्षणि चोपास्यत्वमुक्त्वा , ३"तस्योपनिषदहरिस्यधिदैवतम्" ३"तस्योपनिषदह. मित्यध्यात्मम्" इति वे नामनी आनायेते; उभयत्रैकस्यैवोपास्यस्य सम्बन्धा. क्वमित्युभयत्रोभे नामनी ॥ २०॥
न वा विशेषात् ।। नैतत् , आदित्याक्षिस्थानसंबन्धभेदादुपास्यस्य विचाभेद इति तत्र नियते नामनी ॥ २१ ॥
१. छा. १-७-५॥ २. १. ७-५-१॥-३. 1. ७.५-३॥
For Private And Personal Use Only