________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८५
पा. ३.]
सम्बन्धाधिकरणम् वेदान्तदीपे-समान एवंचाभेदात्॥ वाजसनेयकेऽग्निरहस्ये वृहदारण्यके च शाण्डिल्यविद्याऽऽमाता । अग्निरहस्ये तावत् १"स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम्" इति। बृहदारण्यके च २"मनोमयोऽयं पुरुषो भास्सत्यं तस्मिन्नन्तईदये यथा वीहिर्वा यवो. वा स एष सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिस्सर्वमिदं प्रशास्ति' इति। किमत्र विद्याभेदः, उत नेति संशयः। एकत्र सत्यसङ्कल्पत्वमधिकं श्रुतम् । इतरत्र वशित्वादयोऽधिका इतिरूपभेदाद्विद्याभेद इति पूर्वः पक्षः। राधान्तस्तु -उभयत्र मनोमयत्वादिके समाने सति वशित्वादेस्सत्यसङ्कल्पत्वविततिक पतया तेनाभेदान रूपभेद इति विद्यैक्यम् । सूत्रार्थस्तु-मनोमयत्वादिके समाने सति विद्यैक्यम् , एवं चाभेदात्-वशित्वादिगुणेनाप्यभेदात् ; वशित्वादिहि सत्यसङ्कल्पत्वविततिः॥ १९ ॥
इति वेदान्तदीपे समानाधिकरणम् ॥ ६ ॥
....(श्रीशारीरकमीमांसाभाष्ये सम्बन्धाधिकरणम् ॥ ७॥).-..
सम्बन्धादेवमन्यत्रापि । ३।३।२० ॥
बृहदारण्यके श्रूयते-३"सत्यं ब्रह्म" इत्युपक्रम्य "तयत्सत्यमसौ स आदित्यो य एषएतस्मिन् मण्डले पुरुषोयश्चायं दक्षिणेऽक्षिन्" इत्युपक्रम्य आदित्यमण्डलेऽक्षणि च सत्यस्य ब्रह्मणो व्याहृतिशरीरत्वेनोपास्यत्वमुक्त्वा ५ "तस्योपनिषदहरित्यधिदेवतम्" ५ "तस्योपनिषदहमित्यध्यात्मम्" इति दे उपनिषदौ-रहस्यनामनी उपासनशेषतयाऽम्नायेते; ते किं यथाश्रुतस्थानविशेषनियतत्वेन व्यवस्थिते, उतोभयत्रोभे अनियमेनेति संशये सत्यस्य व्याहृतिशरीरस्यवोपास्यस्य ब्रह्मणो द्वयोः स्थानयोस्सम्बन्धादुपास्यैक्येन रूपाभेदात्संयोगाद्यभेदाच्च विद्युक्यादनियमेने
॥-२. इ. ७-६-१ ।।--३. .७.४.२॥-४. .. ७.५-१॥ -५.व. ७.५-३॥
For Private And Personal Use Only