________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--(भीशारीरकमीमांसाभाष्ये समानाधिकरणम् ॥ ६॥)..समान एवं चाभेदात् । ३।३। १९॥
वाजसनेयके अग्निरहस्ये शाण्डित्यविद्याऽऽनाता "सत्यं ब्रह्मेत्युपासीत अथ खलु क्रतुमयोऽयं पुरुषः" इत्यारभ्य १ "स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम्" इति । तथा तस्मिन्नेव बृहदारण्यके पुनरपि शाण्डिल्यविद्याऽऽन्नायते २"मनोमयोऽयं पुरुषो भास्सत्य तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिस्सर्वमिदं प्रशास्ति यदिदं किञ्च" इति। तत्र संशयः-किमत्र विद्या भिद्यते, उत नेति । संयोगचोदनाख्यानामविशेषेऽपि वशित्वाद्युपास्यगुणभेदेन रूपभेदाद्विद्याभेदः--
---(सिद्धान्तः)--- इति प्राप्त उच्यते-समान एवमिति । यथाऽग्निरहस्ये मनोमयपाणशरीरभारूपसत्यसकल्पत्वगुणगणः श्रुतः; एवं बृहदारण्यकेऽपि मनोमयत्वादिके समाने सत्यधिकस्य वशित्वादेच सत्यसङ्कल्पत्वगुणाभेदान रूपभेदः, अतो विद्यै क्यम् ॥ १९ ॥
इति श्रीशारीरकमीमांसाभाष्ये समानाधिकरणम् ॥ ६ ॥ वेदान्तसारे समान एवं चाभेदात्।। अग्निरहस्ये बृहदारण्यके चा. माता शाण्डिल्यविद्या एकत्र १"स आत्मानमुपासीत मनोमयं प्राणशरीरं भाअपं सत्यसङ्कल्पमाकाशात्मानम्" इति । इतरत्र २ "मनोमयोऽयं पुरुषो भास्सस्यन्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिस्सर्वमिदं प्रशास्ति' इति । उभयत्र मनोमयत्वादिके समानेऽपि वशित्वादेस्सस्यसङ्कल्पत्वविततिरूपेणाभेदादैक्यम् ॥१९॥
इति वेदान्तसारे समानाधिकरणम् ॥ ६ ॥
१. वाजसनेयके. अभिरहसे ॥
२. १. ७-६-१॥
For Private And Personal Use Only