________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८३
पा. ३.]
कार्याख्यानाधिकरणम्. धिः कल्प्यते इत्यर्थः॥ १८॥
इति वेदान्तसारे कार्याख्यानाधिकरणम् ॥ ५ ॥
वेदान्तदीपे-कार्याख्यानादपूर्वम् ।। छान्दोग्यवाजसनेयकयोः ज्ये ष्ठं च श्रेष्ठं च प्राणमुपास्यं विधाय १“सहोवाच किं मे वासो भविष्यतीत्याप इति होचुः” इत्यपां प्राणस्य वासस्त्वमुक्त्वा १"तस्माद्वा एदतशिष्यन्तः पुरस्तावोपरिष्टाचाद्भिः परिदधति लम्भुको ह वासो भवत्यनग्नो भवति" इति च्छान्दोग्ये । वाजसनेयके चापां प्राणवासस्त्वमुक्त्वार "तस्मादेवंविदशिष्यन्ना. चामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुते" इति । आचमनेन प्राणमननं कुरुत इत्यर्थः । अत्राशनात्पुरस्तादुपरिष्टाञ्च किमाचमनं प्राणविद्याङ्गं विधीयते, उताचमनीयानामपां प्राणवासस्त्वानुसन्धान विधीयत इति संशयः! २"आचामेत्" इत्याचमने विधिप्रत्ययश्रवणात् , स्मृत्याचारप्राप्तादाचमनादाचमनान्तरं प्राणविद्याङ्गं विधीयत इति पूर्वः पक्षः। राद्धान्तस्तु-२"अशित्वा चाचामेत्" इत्याचमनं चात्र प्रतीयते ; आचमनीयानामपां प्राणवासस्त्वानुसन्धानं च ३"आपो वास" १"अद्भिः परिदधति" २"एतमेव तदनमनग्नं कुरुते" इति प्रतीयते । तत्राचमनं तावत् स्मृत्याचारप्राप्तम् ; अपां प्राणवासस्त्वानुसन्धानमप्राप्तम् । ३ "अननं कुर्वन्तो मन्यन्ते" २" अननं कुरुते” इत्यनुवाद. सरूपं प्रतीयते । तत्राचमनान्तरकल्पनादाचमनमनूद्याचमनीयानामपां प्राणवासस्त्वानुसन्धानमप्राप्तं विधीयत इति युक्तम् । २"तदनमनग्नं कुरुते" इति ४"वचनानि त्वपूर्वत्वात्" ५"विधिर्वा स्यादपूर्वत्वात्" इति न्यायेन विधिवचनमेव भवति । सूत्रार्थस्तु-अपूर्वम् अप्राप्तमपां प्राणवासस्त्वानुसन्धानं विधेयम् , न पुनः प्राप्तमाचमनम् । कुतः ? कार्याख्यानात्-कार्यस्य अप्राप्तार्थस्याख्यानस्वभावत्वाच्छास्त्रस्येत्यर्थः ॥ १८ ॥
इति वेदान्तदीपे कार्याख्यानाधिकरणम् ॥ ५ ॥
१. छा. ५-२-२ ॥ २॥ -३. ३. ८-१-१४ ॥-४.पूर्वमीमांसा. ३-५-२१॥ -५. पूर्वमीमांसा. ३-४-१२ ॥
For Private And Personal Use Only