________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८०
वेदान्तदीपे
[अ. ३.
स्यात्मन एव प्राणमयादिष्ववधारणात् स्यादेव परमात्मैवेति निर्णयः ॥ १७ ॥ इति वेदान्तसारे आनन्दाद्यधिकरणम् ॥ ४ ॥
वेदान्तदीपे - आनन्दादयः प्रधानस्य || सत्यज्ञानानन्दामलत्वानन्तत्वरूपाः ब्रह्मस्वरूपनिरूपकगुणाः सर्वासु परविद्यासूपसंहर्तव्याः, उत नेति संशयः । नोपसंहर्तव्या इति पूर्वः पक्षः, अप्रकरणाधतानामुपसंहारे प्रमाणाभावात्, ब्रह्मगुणानामसंख्येयत्वेनोपसंहाराशक्तेश्च । राद्धान्तस्तु-ज्ञानानन्दादीनां ब्रह्मस्वरूपनिरूपकगुणत्वेन तैर्विना ब्रह्मस्वरूपानुसन्धानानुपपत्तेः सर्वासूपसंहर्तव्याः - इति । सूत्रार्थस्तु – सर्वाभेद । दित्यतोऽभेदादिति वर्तते ; आनन्दादयो गुणाः सर्वासूपसंहर्तव्याः, प्रधानस्य - गुणिनो ब्रह्मणस्सर्वासु विद्यास्वभेदात् । सर्वासु परविद्यासु ब्रह्मकमेवानुसन्धेयं चेत्, यैर्गुणैर्विना ब्रह्मस्वरूपानुसन्धानमशक्यम्; तेच ज्ञानानन्दादयोऽनुसन्धेया इत्यर्थः ॥ ११ ॥
तै,
प्रियशिरस्त्वाद्यप्राप्तिरूपचयापचयौ हि भेदे || आनन्दादीनां प्राप्तावपि १ " तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः" इति प्रियशिरस्त्वादीनामप्राप्तिः, ब्रह्मस्वरूपगुणत्वाभावात्तेषाम् । ब्रह्मणश्शिरःपक्षादिभेदे स्वरूपे सति ब्रह्मण उपचयापचयौ प्रसज्येयाताम् । ततश्च २" सत्यं ज्ञानमनन्तं ब्रह्म" ३ "आनन्दोऽजरः" इत्यादिर्विरुध्यते ॥ १२ ॥
प्रियशिरस्त्वादिभ्य आनन्दादीनां विशेषमाह -
इतरे त्वर्थसामान्यात् ॥ इतरे आनन्दादयः अर्थसामान्यात् ब्रह्मस्वरूपसामान्यात्सर्वास्वनुवर्तन्ते । ब्रह्मस्वरूपनिरूपरूपणधर्मत्वेन ब्रह्मस्वरूपसमाना हि ते ॥ १३ ॥
प्रियशिरस्त्वादयो ब्रह्मस्वरूपधर्मा न भवन्ति चेत् तदभिधानं किमर्थमित्यत आह-
अध्यानाय प्रयोजनाभावात् ।। अनुचिन्तनार्थे तदभिधानं, प्रयोजनान्तराभावात् । ४'‘ब्रह्मविदाप्नोति परम्" इति वेदितव्यतयोपदिष्टं ब्रह्मानन्दमयं प्रियमोदादिरूपेण विभज्य शिरः पक्षादित्वेन रूपयित्वा बुद्धावारोप्यत इत्यर्थः ॥ १४ ॥
१.
आन, १ - अनु. १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
-
आन. ५-२ ॥ – २. तै. आन. १-१ ॥
For Private And Personal Use Only
- ३. कौषी ३९ ॥ - ४. तै.