________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३. ]
आनन्दाद्यधिकरणम्.
२७९
पूर्वत्रापि १" तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः " इति परमात्मन एव बुद्ध्याऽवधारितत्वात् अन्नमयादनन्तरे प्राणमये प्रथमं परमात्मबुद्धिरवतीर्णाः तदनन्तरं च प्राणमयादनन्तरे मनोमये;ततो विज्ञानमये; तत आनन्दमये प्रक्रान्ता परमात्मबुद्धिस्तदन्तराभावादुत्तराच्च २" सोऽकामयत" इति वाक्यात्प्रतिष्ठितेत्युपक्रमेऽप्यपरमात्मनि परमात्मबुद्ध्या आत्मशब्दान्वयः इति निरवद्यम् ॥ १७ ॥
इति श्रीशारीरकमीमांसाभाष्ये आनन्दाद्यधिकरणम् ॥ ४ ॥
वेदान्तसारे - आनन्दादयः प्रधानस्य || अभेदादिति वर्तते; ब्रह्मस्वरूपनिरूपणान्तर्गतामलत्वज्ञानानन्दादयो गुणाः सर्वासु परविद्यासूपसंहार्याः, गुणिनो ब्रह्मणस्सर्वत्राभेदात् ॥ ११ ॥
प्रियशिरस्त्वाद्यप्राप्तिरूपचयापचयौ हि भेदे ॥ ३" तस्य प्रियमेष शिरः" इति प्रियशिरस्त्वादीनामप्राप्तिः, ब्रह्मगुणत्वाभावात्तेषाम् । शिरःपक्षादिभेदे ब्रह्मगुणे सति ब्रह्मण उपचयापचयप्रसक्तिः ॥ १२ ॥
इतरे त्वर्थसामान्यात् || आनन्दादयः स्वरूपनिरूपणान्तर्गततया ग्र समाना इत्युपसंहार्या एव ॥ १३ ॥
आध्यानाय प्रयोजनाभावात् || प्रियशिरस्त्वाद्युपदेशः ब्रह्मणोऽनुचिन्तनार्थः, प्रयोजनान्तराभावात् ॥ १४ ॥
आत्मशब्दाच्च || ३" अन्योऽन्तर आत्माऽऽनन्दमयः" इत्यात्मशब्दाच शिरःपक्षादयो न ब्रह्मगुणाः ॥ १५ ॥
आत्मगृहीतिरितरवदुत्तरात् || परमात्मन एवात्मशब्देन ग्रहणमिति २" सोऽकामयत बहु स्यां प्रजायेय" इत्युत्तरात् बहुभवनसङ्कल्पाभिधायिनो वाक्यादवगम्यते ; ४' ' आत्मा वा इदमेक एवात्र आसीत्" इत्यात्मशब्दादिवत् ॥
अन्वयादिति चेत्स्यादवधारणात् ॥ पूर्वत्र प्राणमयादिष्वात्मशब्दान्वयात्कथमुत्तरनिर्णय इति चेत् - १" आत्मन आकाशस्सम्भूतः" इत्यवगत१. तै. आन. १- अनु. २ ॥–२, तै. आ. ६-अनु. २ ॥ - ३. तै. आन-५-२ ॥ - ४. ऐतरेय. १-अनु. १ खं. १ ॥
For Private And Personal Use Only