________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३. कार्याख्यानाधिकरणम् .
૨૮૨ __आत्मशब्दाच ॥ १"अन्योऽन्तर आत्माऽऽनन्दमयः" इत्यात्मशब्दाच नियशिरस्त्वादयो न ब्रह्मस्वरूपधर्माः; शिरःपक्षादयो हि नात्मधर्माः ॥१५॥
आत्मदहीतिरितरवदुत्तरात्।। १"अन्योऽन्तर आत्मा" इस्यात्मशब्देन परमात्मन एवं गृहीतिः-ग्रहणम् ; इतरवत् २ "आत्मा वा इदमेक एवान आसीत्' इस्थात्मशब्देन यथा परमात्मनो ग्रहणम्, तद्वत् । कथमिदमवगम्यते', तदेकार्थादुत्तरात् ३"सोऽकामायत बहु स्यां प्रजायेय" इत्यादिवाक्यात् ॥१६॥ _अन्वयादिति चेत्स्यादवधारणात्॥ पूर्वेषु४ 'अन्योऽन्तर आत्मा प्राणमयः" इत्यादिवाक्येवनात्मस्वप्यात्मशब्दान्वयात्कथमुत्तरवाक्यानिर्णय इति चेत्-५"तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः” इति प्रकृतस्यात्मन एव प्राणमयादिग्वानन्दमयपर्यन्तेषु आत्मशब्देनावधारणात् स्यादेव निर्णयः। अतः प्रियशिरस्त्वादीनामनात्मधर्मत्वात् , ज्ञानानन्दादीनामात्मस्वरूपनिरूपणधर्म - त्वाच, तेषामेव सर्वत्रोपसंहारः॥१७॥
___ इति वेदान्तदीपे आनन्दाद्यधिकरणम् ॥ ४ ॥
(श्रीशारीरकमीमांसाभाष्ये कार्याख्यानाधिकरणम् ॥५॥)..
कार्याख्यानादपूर्वम् । ३।३।१८ ॥
पूर्वप्रस्तुतप्राणविद्याशेषभूतमिदानी चिन्त्यते । छान्दोग्यवाजसनेपकयोः ज्येष्ठं च श्रेष्ठं च प्राणमुपास्यमुक्त्वा प्राणस्य वासस्त्वेनापोऽभिधीयन्ते । छान्दोग्ये तावत् ६“स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाचाद्भिः परिदधति लम्भुको ह वासो भवत्यनमो भवति" इति । वाजसनेयके "किं मे वासः" इति प्राणेन पृष्टा वागादयः ऊचुः ७"आपो वास इति तद्विद्वांसश्श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वा चाचामन्त्येतमेव तदनमननं कुर्वन्तो
१. ते. भान. ५-अनु. २ ॥ --५. ऐतरेय. १-अ. १-खं. १॥-३. ते .आन-६-२॥ –४. तै. आन. २-मनु, २ ॥-५. ते. आन. १-अनु. २ ॥-६. छा. ५-२-२॥७... ८.१-१४॥
*36
For Private And Personal Use Only