________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसामाग्वे
[.. आनन्दादयः प्रधानस्य । ३॥ ३॥११॥
अत्र ब्रह्मवरूपगुणानां सर्वासु परविद्यासुपसंहारोऽस्ति , नेति विचार्यते । अप्रकरणाधीतानामुपसंहारे प्रमाणाभावात्मकरणश्रुतानामेबोपसंहार इति ॥
-(सिद्धान्तः)--- एवं प्राप्ते भूमः- आनन्दादयः प्रधानस्य-अभेदादिति वर्तते ; प्र' धानस्य गुणिनो ब्रह्मणस्सर्वेपासनेष्वभेदात्,गुण्यपृथग्भावाद्गणानां, सत्रानन्दादयस्तद्गुणा उपसंहर्तव्याः॥ ११ ॥
एवं तर्हि गुण्यपृथग्भावादेवानन्दादिवत्मियशिरस्त्वादयोऽपि "तस्य प्रियमेव शिरः" इत्यादौ ब्रमगुणत्वेन श्रुतास्सर्वन प्रसज्येरन् । नेत्याहप्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि
भेदे । ३।३।१२॥ ब्रह्मस्वरूपगुणानां प्राप्तावुच्यमानायां प्रियशिरस्त्वादीनामप्राप्तिः, तेषामब्रह्मगुणत्वात् , ब्रह्मणः पुरुषविधत्वरूपणमात्रान्तर्गतत्वात्नियशिरस्त्वादीनाम् । अन्यथा शिरःपक्षपुच्छाद्यवयवभेदे सति ब्रमणोऽप्युपचयापचयौ प्रसज्येयाताम् । तथा च सति २" सत्य ज्ञानमनन्तं ब्रह्म" इत्यादि विरुध्यते ॥ १२॥
. नन्वेवमेव ब्रह्मसम्बन्धिनामवैश्वर्यगाम्भीर्यौदार्यकारुण्यादीनां गुणानामनन्तानां गुण्यपृथक्स्थितत्वमात्रेण तत्राश्रुतानामप्युपसंहारे सर्वे सर्वत्र प्रसज्येरन् , आनन्त्यादुपसंहाराशक्तिश्वः तत्राह
इतरे त्वर्थसामान्यात् । ३।४।१३॥ १. ते. भा. ५-२ ॥-२. ते. भा. १. अनु. १ ॥
For Private And Personal Use Only