________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.]
भानन्दायधिकरणम् . तुशन्दश्वोयं व्यावर्तयति ; इतरेतु - आनन्दादयः अर्थसामान्यात्सर्वत्रानुवर्तन्ते । ये त्वर्थसमानाः • अर्थस्वरूपनिरूपणधर्मत्वेनार्थप्रतीत्यनुबन्धिनः । तेऽर्थखरूपवत्सर्वत्रानुवर्तन्ते । ते च गुणास्सत्यज्ञानानन्दामलत्वानन्तत्वानि । १" यतो वा इमानि" इत्यादिना जगत्कारणतयोपलक्षितं ब्रह्म २"सत्यं ज्ञानमनन्तं ब्रम"३" आनन्दो ब्रह्म" इत्यानन्दादिभिर्हि स्वरूपतो निरूप्यते । अत उपास्यब्रह्मवरूपावगमाय सवासु विद्यावानन्दादयोऽनुवर्तन्ते । ये तु निरूपितस्वरूपस्य ब्रमणः कारुण्यादयो गुणाः प्रतिपन्नाः तेषां गुण्यपृथक्स्थितत्वेऽपि प्रतीत्यनुवन्धित्वाभावात्-ये यत्र श्रुताः, ते तत्रोपसंहार्याः-इति निरवद्यम् ॥ १३ ॥
यत्तूपचयापचयप्रसङ्गालियशिरस्त्वादयो ब्रह्मणः पुरुषविधत्वरूपणमात्रार्थाः; न तु ब्रह्मगुणाः। तीतथारूपस्य ब्रह्मणस्तथात्वेन रूपणं किमर्थ क्रियते । अतथाभूतस्य हि तथात्वरूपणे केनचित्पयोजनेन भवितव्यम् । यथा ४" आत्मानं रथिनं विद्धि" इत्यादिनोपासकस्य तदुपकरणानां च रथिरथादित्वरूपणम् उपासनोपकरणभूतशरीरेन्द्रियादिवशीकरणार्थ क्रियत इत्युक्तम् । नचेह तथाविधं किश्चिप्रयोजनं दृश्यते इति बलाद्ब्रह्मगुणत्वं प्रियशिरस्त्वादीनामभ्युपेत्यम् । तत्राहआध्यानाय प्रयोजनाभावात् । ३।३।१४॥
प्रयोजनान्तराभावादाध्यानायायं रूपणोपदेशः क्रियते । आध्यानम् अनुचिन्तनम् , उपासनमुच्यते। २" ब्रह्मविदाप्नोति परम्" इत्यत्रोपदिष्टाध्यानरूपवेदनसिद्धये ह्यानन्दमयब्रह्मप्रतिपत्त्यर्थमानन्दमयं अझ प्रियमोदादिरूपेण विभज्य शिरःपक्षादित्वेन रूपयित्वोपदिश्यते । यथाऽनमयः पुरुषः अयं देहः शिरःपक्षादिभिः २"तस्येदमेव शिरः" इ
१. ते. भृगु. १. भनु ॥---२. तै. आ. १. अनु-१ ॥-३. ते. भूगु. ६. भनु ।
--४. कर. १-अ. ३-३ ॥
For Private And Personal Use Only