________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३.]
मानन्दाद्यधिकरणम्.
२७५
वेदान्तदीपे—सर्वाभेदादन्यत्रेमे ॥ १" यो ह वै ज्येष्ठं श्रेष्ठं च वे द ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वा व ज्येष्ठश्च श्रेष्ठश्व" इति छन्दोगान वाजिनां कौषीतकिनां च प्राणविद्याऽऽस्नाता । तत्र छान्दोग्यवाजसनेयकयोस्स र्वस्यैकरूप्यात्प्राणविद्येकैव । कौषीतकिप्राणविद्यायास्तस्याश्च भेदोऽस्ति, उत नास्तीति संशयः । अस्ति भेद इति पूर्वः पक्षः । यद्यपि सर्वत्र ज्यैष्ठ्य श्रेष्ठ्यगुणकः प्राण एक एवोपास्यः ; तथापि छन्दोगानां वाजसनेयिनां च ज्यैष्ठ्यष्ट्यगुणकस्य प्राणस्य वागादिगतवसिष्ठत्वादिगुणसम्बन्धित्वमपि शब्दादेव प्रतीय| कौषीतकिनां तु न तथेति रूपभेदाद्विद्याभेदः । राद्धान्तस्तु - यद्यपि कौषीतकिप्राणविद्यायां वागादिगतवसिष्ठत्वादिसम्बन्धित्वमपि प्राणस्य शब्दान्नाभिहितम् ; तथापि तत्रापि प्राणस्य ज्यैष्ठ्य श्रैष्ठ्योपपादनं वागादीनां स्थितेः तत्तत्का स्य च प्राणाधीनत्वेनेत्येतदविशिष्टमिति वागादिगतवसिष्ठत्वादेरपि प्राणहेतु'कत्वानुसन्धानेन विना प्राणस्य ज्यैष्ठ्य श्रेष्ठ्यानुसन्धानमनुपपन्नमिति कौषीतकिप्राणविद्यायामपि वागादिगतवसिष्ठत्वादिसम्बन्ध्येव प्राण उपास्य इति रूपाभेदाद्विद्यैक्यम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रार्थस्तु सर्वाभेदादन्यत्रेमे- -अन्यत्र - कौषीतकिप्राणविद्यायामपि, इमे वसिष्ठत्वादयस्सन्स्येव । कुतः ? सर्वाभेदात् प्राणज्यैष्ठ्यत्रैष्ठ्योपपादनप्रकारस्य सर्वस्य तत्राप्यभेदात् । वागादीनां स्थितेः * कार्यस्य च प्राणहेतुकत्वेन हि प्राणस्य ज्यैष्ठयं श्रेष्ठ्यं चात्राप्युपपादितम् । अतो वागादिगत कार्यसामर्थ्यरूपवसिष्ठत्वादिसम्बन्धित्वं प्राणस्यात्राप्युक्तमेवेत्यर्थः ॥ १० ॥
इति वेदान्तदीपे सर्वाभेदाधिकरणम् || ३ ||
श्री शारीरकमीमांसाभाष्ये आनन्दाद्यधिकरणम् ॥ ४॥ ) -
प्राणविद्याङ्गविषयमन्यदपि निरूपणमनन्तरमेव करिष्यते । यथा त्राणस्य वसिष्ठत्वाद्यनुसन्धानेन विना ज्यैष्ठ्य श्रेष्ठयानुसन्धानानुपपत्तेरमुक्तानामपि वसिष्ठत्वादीनां कौषीतकिप्राणविद्यायां प्राप्तिः; तथा ब्रह्मस्वरूपानुसन्धानं यैर्गुणैर्विना नोपपद्यते ; ते ब्रह्मविद्यासु सर्वास्वप्यनुसन्या इत्ययमर्थः प्रतिपाद्यते -
१. छा. ५-१-१॥
* नत्कार्य. पा ॥
For Private And Personal Use Only